________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
अर्थान्तरं वेति - "प्रकृतादादप्रतिसम्बद्धार्थमर्थान्तरम्” ( न्याय० ५ । २ । ७) । इत्यर्थान्तराख्यं निग्रहस्थानम् । समवायसाधनाय प्रवृत्तानां नैयायिकानां प्रकृतमुपेक्ष्य स्वरूपसम्बन्धसिद्धया उजं निग्रहस्थानमेव भवतीति पूर्वपक्षयितुर्मीमांसकस्याऽभिप्रायः । तदेतत्खण्डयति नैयायिकः- "अनन्तस्वरूपाणाम्' इत्यादिना । प्रत्येकं गुणादीनां द्रव्यादिभिः सहकेनैव समवायाख्येन सम्बन्धेन निर्वाहे सति स्वरूपसम्बन्धकल्पने गौरवमेव मीमांसकस्येत्यर्थः । तथा च यथा पृथिव्यादिजनकतया लाघवादेक एवेश्वरः कर्ता सिद्धयति तथा समवायोऽपीति सिद्धान्तिनोऽभिप्रायः ।
इदन्तु बोध्यम्-यद्यपि लाघवादेकसमवायवादिनः प्राचीनस्य मते नैव दोषः तथापि “पृथिव्यां गन्धस्य समवायो न जले' इत्यादिप्रतीतेर्नानासमवायवादिनो नव्यस्य मते नोक्रानुमानेन समवायसिद्धिः । किन्तु नानासमवायकल्पनापेक्षया उपस्थितानां नानास्वरूपाणामेव स्वीकारो वरः उपस्थितम्परित्यज्यानुपस्थितकल्पनायां मानाभावात् ।
अनोत्तरम्--नव्यनयेऽपि समवायेन कार्यम्प्रति तादात्म्येन हेतुता । यथा-- "समवायेन पटाख्यं कार्यम्प्रति तादात्म्यसम्बन्धेन तन्तूनां कारणता" इति । इत्यञ्च-- पटनिष्ठकार्यताया अवच्छेदकः सम्बन्धः समवायः, तत्कथं स्वरूपं सम्बन्धः स्यात् । नच पटनिष्ठकार्यताया अवच्छेदकः सम्बन्धोऽपि स्वरूपसम्बन्ध एव भविष्यतीति मुधा समवायकल्पनेति वाच्यम्, यतस्तथा कल्पनायां यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमिति समवायिकारणलक्षणव्यवस्था अनास्थां भजिष्यते।।
यदि तु यत्सम्बद्धं कार्यमुत्पद्यते तत्समवायिकारणमिति लक्षणं करिष्याम इत्युच्येत ? तथा कपालसम्बद्धो यो घटध्वंस: तम्प्रत्यपि कपालस्य समवायिकारणतापत्तिः स्यात्, इष्टापत्तौ च ध्वंसस्यापि घटकार्यवद् भावकार्यतापत्तिः । तस्माद्भाव. कार्यवृत्तिर्यः कार्यताधर्म: तस्यावच्छेदकसम्बन्धविधयाऽपि नव्यमते समवायसिद्धौ न . किमपि दोषं पश्याम इति शम् ।
समवायस्यैकत्वे वायौ रूपप्रतीतिमाशङ्कय खण्डयितुमाह--"नच" इति । "रूपवत्ताबुद्धेः" इति । रूपवत्ताप्रतीतेः प्रमात्वप्रसङ्ग इत्यर्थः । स्पर्शसमवायो योऽस्ति वायौ, यश्च रूपसमवायोऽस्ति पृथिव्यादिषु, सचैक एव यत इत्याक्षेप्तुराकूतकम् । सत्र-वायौ । “रूपाभावात्" इति । प्रतियोगिकत्वसम्बन्धेन रूपाभावादित्यर्थः । नहि समवायसत्तामात्रेण रूपवत्ताप्रतीतिः । किन्तु रूपप्रतियोगिकसमवाय एव
__* प्रकृतात्=प्रस्तुतात्, अत्र ल्यब्लोपे पञ्चमी । प्रकृतोपयुक्तमर्थमुपेक्ष्य असम्बद्धार्थाभिधानमर्थान्तरं नाम निग्रहस्थानमिति सूत्रार्थः ।
* एतन्मूलक एवायं न्यायः- "विनायकं प्रकुर्वाणो रचयामास वानरम्" इति ।