________________
समवायः।
(मुक्रा०) अवयवावयविनोर्जातिव्यक्त्योर्गुणगुणिनोः क्रियाक्रियावतोर्नित्यद्रव्यविशेषयोश्च यः सम्बन्धः स समवायः । समवायत्वं नित्यसम्बन्धत्वम् ।
(प्रभा०) समवायस्य लक्षणमाह--"नित्यसम्बन्धत्वम्" इति । सम्बन्धिभिन्नत्वे सति सम्बद्धप्रतीतिनियामकत्वं सम्बन्धसामान्यलक्षणम् । तथाच-अयुतसिद्धानां समवाय इति फलितं भवति । उकञ्च भाष्ये--"अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवाय' इति । अयुतसिद्धत्वञ्च पृथगसिद्धत्वम् । युतं पृथग्भूतं सत् सिद्धं न भवति यत् तदयुतसिद्धमित्यर्थः ।
अयम्भावः-पृथग्भूतत्वे सति ययोरुत्पत्तिरुपलब्धिर्वा न भवति, तयोर्यः सम्बन्धः स समवायः । यथा-मूल एव निर्दिष्टमवयवावयवविनोरित्यादिना । नह्यवयवं विनाऽवयविनः स्थितिरुपलब्धिर्वा भवितुमर्हति, नापि गुणिनं विना गुणानामित्यादि बोध्यम् । ... (मुक्का०) तत्र प्रमाणन्तु-गुणक्रियादिविशिष्टबुद्धिर्विशषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वात् “दण्डी पुरुष" इति विशिष्टबुद्धिवत् इत्यनुमानम् । एतेन संयोगादिवाधात्समवायसिद्धिः । नच स्वरूपसम्बन्धेन सिद्धसाधनम् , अर्थान्तरं वा, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः । नच समवायस्यैकत्वे वायो रूपवत्ताबुद्धिप्रसङ्गः, तत्र रूपसमवायसवेऽपि रूपाभावात् ।
(प्रभा०) समवायस्य सम्बन्धरूपतायामनुमानं प्रमाणमाह-"तत्र" इति । "गुणक्रियादिविशिष्टबुद्धिः" इति । “नीलो घटः पीतो घटः" इत्यादि गुणविशिष्टबुद्धिः । तत्र नीलं विशेषणं घटो विशेष्यः । “गतिमान्देवदत्तः” इति क्रियाविशिष्टबुद्धिः । "घटत्ववान्” इति जातिविशिष्टबुद्धिरित्यादि स्वयमूह्यम् । “गुणक्रियादिविशिष्टबुद्धि". रिति पक्ष: । “विशेषणविशेष्यसम्बन्धविषया" इति साध्यम् । “विशिष्टबुद्धित्वात्" इति हेतुः । “दण्डी पुरुष:'' इति दृष्टान्तः । “या या विशिष्टबुद्धिः सा सा विशेषणविशेष्यसम्बन्धविषयिका" इतिव्याप्तेराकारः । “संयोगादिबाधात्" इति । "द्रव्ययोरेव संयोग" इतिनियमसत्वात् गुणगुण्यादीनां समवाय एव सम्बन्धो विशिष्टप्रत्ययहेतुरिति भावः।
सम्प्रति अयुतसिद्धपदार्थानां स्वरूपसम्बन्ध इति वदतां मीमांसकानां शङ्कामुत्थाप्य निरस्यति-"न" इत्यादिना । सिद्धस्यैव साधनमिति सिद्धसाधनम् । गुणक्रियादिविशिष्टबुद्धिरित्यनुमानेन समवायसम्बन्धसाधने प्रवृत्तो नैयायिकः अस्मन्मतं (मीमांसकमतं) स्वरूपसम्बन्धमेव साधयति न किञ्चिन्नवीनं करोतीति पिष्टपिष्टिरेवेत्याशयः।