________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
(प्रभा०) "अन्त्य" इति । * अन्ते अवसाने अर्थात् कल्पनायाः वर्तत इति अन्त्यः । “दिगादिभ्यो यत्" ( ४ । ३ । ५४ ) इति भवार्थे यत् प्रत्ययः । अर्थात् यः पदार्थश्वरमव्यावर्तकरूपेण स्वीकृतोऽथ च परमाण्वाकाशादिषु नित्यद्रव्येषु वृत्तिर्वर्त्तनं स्थितिर्यस्य स विशेषः-विशेषनामकः परिकीर्तित उक्नः कणादमुनिनेति शेषः । तथाच सूत्रम्-"अन्यत्रान्त्येभ्यो विशेषेभ्यः' (वै० १।२।६) इति । "नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एवे"ति प्रशस्तोक्नञ्च । अयमभिसन्धिःसावयवपदार्थानामवयवभेदाभेदः कल्पयितुं शक्यते, परमाण्वादिनिरवयवानान्तु को भेदकः स्यात् ? यदि विशेषो न स्याद्, अतस्तेषु यो व्यावृत्तबुद्धिजननहेतुः स एव विशेषः । सतु स्वतोव्यावृत्तो न तत्र विशेषान्तरापेक्षा वर्तत इति । विशेषे भेदानुमितिप्रकारश्चायम्-'पृथिवीपरमाणुगतो विशेषः जलादिपरमाणुगताद्विशेषात् भिद्यते विशेषात्' इति । अत्र - यथा “घटः पटानिन्नो घटत्वाद्' इति घटाद्भिन्नो घटत्वधर्मः पटप्रतियोगिकभेदसाधको न तथा विशेषेऽन्यो धर्मों भेदसाधक इत्येव तस्य स्वतोव्यावृत्तन्नाम । अत्र नित्यद्व्यवृत्तित्वमिति स्वरूपकथनं नतु लक्षणं समवायस्यापि नित्यद्रव्यवृत्तित्वात् । 'परमाणुभेदः किञ्चिल्लिङ्गज्ञाप्यो भेदत्वात् कपालभेदवत्' इति विशेषसाधकमनुमानान्तरमपि बोध्यम् । यदपेक्षयेति-विशेषापेक्षयेत्यर्थः । विशेषनिष्टविशेषान्तरप्रतियोगिकभेदाऽनुमापकविशेषातिरिक्तधर्मो नास्तीत्यर्थः ॥६, १०॥ (का०) घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ।
तेषु जातेश्व सम्बन्धः समवायः प्रकीर्तितः ॥११॥ (प्रभा०) समवायं दर्शयति-"घटादीनाम्" इति । यस्य सम्बन्धः स तस्य सम्बन्धस्य प्रतियोगी। यस्मिन्सम्बन्ध: स तस्यानुयोगीति नियमात् घटादीनामित्यत्र षष्ठ्याः प्रतियोगित्वमर्थः । कपालादाविति सप्तम्या अनुयोगित्वमर्थः । घटपदमवयविनं कपालपञ्चावयवमुपलक्षयति । तथाच-कारिकायाः अयमर्थः सम्पद्यतेअवयवयिप्रतियोगिकोऽवयवयानुयोगिकः, गुणकर्मप्रतियोगिको द्रव्यानुयोगिकः, जातिप्रतियोगिको द्रव्यगुणकर्मानुयोगिकः, चकाराद्विशेषप्रतियोगिको नित्यद्रव्यानुयोगिकश्च यः सम्बन्ध: स समवायः इत्यर्थ हृदि कृत्वैवाह मुक्तावलीकारः-अवयवावयविनोरित्यादिविशिष्टानां योगिनां तुल्याकृतिगुणक्रियेषु तुल्याकृतिषु, तुल्यगुणेषु, तुल्यक्रियेषु परमाणुषु मुक्लात्ममनःसु च अन्यनिमित्ताऽसम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारम्-अयमस्माद्विलक्षण:इति प्रत्ययव्यावृत्तिर्भवति तेऽन्त्या विशेषाः" इति कन्दलीग्रन्थोऽपि सङ्गत एव मन्तव्यः ।
___ * "उत्पादविनाशयोरन्तेऽवस्थितत्वात् अन्तशब्दवाच्यानि नित्यद्रव्याणि तेषु भवाः स्थिता इत्यर्थः” इति कन्दलीकारोक्तं साधुराभाति । "अजातिरेकवृत्तिश्च विशेष इति कथ्यते" इति तार्किकरक्षा।