________________
परापरजाति:, विशेषपदार्थश्च ।
.
तदपेक्षया चेति-सत्तापेक्षया चेत्यर्थः । द्रव्यं सत्, गुण: सन् , कर्म सत् इत्यनुगतप्रतीतिरेव सत्ताया: साधिकेति भावः । तथाच--पारमर्ष सूत्रम्--"सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" (वै० १ । २ । ७) । इतिकारेण प्रत्ययव्यवहारयोः प्रकारमुपदिशति । तथाच-"द्रव्यादिषु त्रिषु सत्सदितिप्रकारको यतः प्रत्ययः, सदिदं सदिदमित्याकारक: शब्दप्रयोगो वा यदधीनः सा सत्ता" इति तद् व्याख्यातारः । भाष्यमपि--"परं सत्ता महाविषयत्वात् सा चानुवृत्तरेव हेतुत्वात् सामान्यमेव" इति ॥८॥ (का०) परभिन्ना च या जातिः सैवाऽपरतयोच्यते ।
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ।।६।। (प्रभा०) “परभिन्ना" इति । सत्ताभिन्ना सर्वापि जाति: । "परापरतया" इति । परतया अपरतया चेत्यर्थः । . (का०) व्यापकत्वात्परापि स्याद्वयाप्यत्वादपरापि च ।
' (मुक्रा०) पृथिवीत्वाद्यपेक्षया व्यापकत्वादधिकदेशवृत्तित्वात् द्रव्यत्वादेः परत्वम् , सत्तापेक्षया व्याप्यत्वाद् अल्पदेशवृत्तित्वाच्च द्रव्यत्वस्यापरत्वम् । तथा च-धर्मद्वयसमावेशादुभयमविरुद्धम्।
(प्रभा०) ननु-विरुद्धयोः परत्वापरत्वयोः कथमेकत्र स्थितिस्तत्राह--"व्यापकत्वात्" इति । “पृथिवीत्वाद्यपेक्षया” इति । द्रव्यत्वादेः पृथिवीत्वाद्यपेक्षया इत्यन्वयः । "धर्मद्वय' इति । * श्रापेक्षिकधर्मद्वयस्यैकत्र समावेशान्नोभयोः परत्वा. परत्वयोर्विरोध इति भावः। .. "द्रव्यत्वं गुणत्वं कर्मत्वं सामान्यानि विशेषाश्च" (वै० १।२।१) इत्यार्षसूत्रमूलकमेवेदं परापरविभागकरणम् ।
(का०) अन्त्यो नित्यद्रव्यवृत्तिविशेषः परिकीर्तितः।
(मुक्का०) अन्ते अवसाने वर्तत इत्यन्त्यः, यदपेक्षया विशेषो नास्तीत्यर्थः। घटादीनां द्वयणुकपर्यन्तानां तत्तद्वयवभेदात्परस्परं भेदः परमाणूनां । परस्परभेदको विशेष एव । स तु स्वत एव व्यावृत्तः तेन सत्र विशेषान्तरापेक्षा नास्तीति भावः ॥६-१०॥ प्रतियोगितानुयोगितान्यतरसम्बन्धेन समवायाभाव एवासम्बन्धः, तेन समवायत्वमभावत्वञ्च न जाति: अपितूपाधिरेवेति ज्ञेयः ।
* यथा-एकस्यामेव पद्मावत्यां परिणेतृपुरुषापेक्षया कान्तात्वम्, स्वपुत्रापेक्षया मातृत्वम्, स्वपित्रपेक्षया पुत्रीत्वञ्चेत्येवमापेक्षिकधर्माणामविरोधः, एवं प्रकृतेऽपि विशेयम् ।
+इदमुपलक्षणम्-आकाशादिनित्यपदार्थानामपीति शेयम् । अत एव-"तथाऽस्म•