________________
३८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः [प्रत्यक्षखण्डे धिकरण्यम् एकाधिकरणवृत्तित्वमस्त्युभयोधर्मयोः । अथ च पृथिव्यादिषु तयोः समावेश: सम्भूयवृत्तित्वम् । अत एव भूतत्वं मूर्त्तत्वञ्चत्युभयं न जातिः किन्तूपाधिः । सार्यस्थले एकमात्रधर्मस्य जातित्वं स्वीकुर्वन्त: "मूर्त्तत्वं क्रियासमवायिकारणताऽवच्छेदकतया सिद्धा जाति"रिति वदन्ति ।
अनवस्थितिः-अनवस्था अर्थात् क्वचिदपि विश्रामाभावः सामान्यस्य जातित्वे बाधिका । अर्थात् यदि सामान्ये सामान्यान्तरमङ्कीक्रियेत तत्रापि सामान्यान्तरम्, तत्रापि सामान्यान्तरमित्युत्तरोत्तरमनास्थायिनी धारा अापतेत्, 'तस्मात् सामान्यत्वं न जातिः । सामान्ये न सामान्यान्तरमित्यर्थः ।
इदमत्राकृतकम्-यथा “गौौँ"रित्यनुगतव्यवहारस्य अनुगतधर्म विनाsनुपपत्ति:, अतो गोत्वजातिरूपो धर्मः स्वीकृतः तथा गोत्वपुरुषत्वपशुत्वादिजातिषु "जातिर्जाति"रित अनुगतव्यवहाराय सर्वासु जातिषु एको जातिरूपोऽनुगतधर्मः स्वीकर्तव्य: तस्यापि जातित्वात् पुनस्तमादाय जातिर्जातिरिति व्यवहार: प्रवृत्तः, तदर्थमन्यो जातिरूपो धर्म: स्वीकर्तव्यः, तमादाय पुनर्जातिर्जातिरिति व्यवहारप्रवृत्ती इयमनवस्था ज्ञेया। तथा च--अनुगतप्रतीतिमात्रं नानुगतधर्मसाधकम्, किन्त्वसति बाधके इति । बाधकाभावविशिष्टानुगतप्रतीतिविशेष्यत्वस्यैव जातिसाधकत्वमिति परः सारः ।
रूपहानिः-स्वतो व्यावर्तकत्वात्मकरूपस्य लक्षणस्य हानि: रूपहानिः, सा च विशेषत्वस्य जातित्वे बाधिका।
अयमर्थः--यदि विशेषपदार्थ विशेषत्वं जाति: स्यात्, तदा तेनैव तस्य व्यावर्तकत्वं भविष्यति, यत: सामान्याश्रयस्य सामान्यमुखेनैव व्यावर्तकत्वनियमः । विशेषपदार्थस्य तु न सामान्यद्वारा भेदसाधकत्वम् तस्य स्वरूपेणैव भेदसाधकत्वात् ततश्च विशेषपदार्थलक्षणहानिभयात् विशेषत्वं नैव जाति: किन्तूपाधिरेव ।
असम्बन्धः-समवायाऽभावोऽसम्बन्ध: । स च समवायत्वस्य जातित्वे बाधकः । अर्थात् यदि समवाये समवायत्वं जाति: स्यात् तर्हि समवायत्वस्य समवाये वृत्त्यर्थ समवायान्तरकल्पनाऽऽपद्येत सा च न युक्ता ।
अयम्भावः--रूपादिधर्मा हि रूपादिमत्सु द्रव्येषु समवायसम्बन्धेन वर्त्तन्ते, समवाये यदि समवायत्वं जातिः, सापि द्रव्यत्वादिवत् वृत्तित्वलाभाय समवायान्तरमपे क्षिष्यते, समवाये च समवायान्तरस्याससम्भव इति न समवायत्वं 8 जाति: ।
* अत्रायमाशयः यस्य सम्बन्धः स सम्बन्धस्य प्रतियोगी। यस्मिन्सम्बन्ध स सम्बन्धस्य अनुयोगी। अनेन नियमेन समवायः क्वचित्प्रतियोगितासम्बन्धेन वर्तते, कचिच्चानुयोगितासम्बन्धेन । समवाये यदि समवायत्वं जाति: स्यात्, तस्या अपि समवाये समवायसम्बन्धेनैव वृत्तिता भवेत् । तथासति-समवायत्वसमवाय उक्तान्यतरसम्बन्धेन कल्प्यमानः स्यात्, सच नाहत्येव भवितुमिति