________________
जातिबाधकसङ्ग्रहः ।
सम्बन्धेन जलत्वाद्यभावसामानाधिकरण्यमुपादाय द्रव्यत्वविशिष्टे पृथिवीत्वादौ स्वसमानाधिकरणो योऽभावो नाम जलत्वसमानाधिकरणोऽभावः पृथिवीत्वाभावः सत्प्रतियोग्येव पृथिवीत्वं नाऽप्रतियोगीति ( तस्य जातित्वं न स्यात्) तस्मात् प्रथम: सम्बन्ध उपात्तः । तेन सम्बन्धेन व्यधिकरणतया ( वर्त्तमानस्य ) जलत्वस्य द्रव्यत्वविशिष्टे पृथिवीत्वाद ग्रहणं कर्त्तुं न शक्यते, अतः पृथिवीत्वग्रहे दोषाभाव: ।
३७
परन्तु — दर्शितनियमस्य साङ्कर्यस्थले भङ्गप्रसङ्ग एव । तथाहि —- मूर्त्तत्वस्य भूतत्वस्य च जातित्वं मूर्त्तत्वविशिष्टे भूतत्वे स्वसामानाधिकरण्यसम्बन्धेन मूर्त्तत्वसमानाधिकरणो मनसि वर्त्तमानो योऽभावः, सौ भूतत्वस्यापि धर्त्तुं शक्यते, भूतत्वाभावस्य च प्रतियोग्येव भूतत्वं नाप्रतियोगीति ।
द्वितीयसम्बन्धेनापि च निरुक्ताभावप्रतियोगितैवायाता भवति । तथाहि— "स्व" पदेन मूर्त्तत्वग्रहः तदभावो गगने, तेन = गगनाधिकरणकमूर्त्तत्वाभावेन सह भूतत्वस्यास्ति सामानाधिकरण्यम् । अत उक्तेन सम्बन्धेन मूर्त्तत्वसमानाधिकर णोऽभावो भूतत्वस्य तत्प्रतियोग्येव च भवति भूतत्वमिति केवलेन स्वसामानाधिकरण्यसम्बन्धेन नाऽस्य वारणं शक्यते कर्तुम् । मूर्त्तत्वसमानाधिकरणस्यैव भूतत्वस्य मूर्त्तत्वसमानाधिकरणे मनसि भूतत्वाभावस्य च सत्त्वादिति द्वितीयसम्बन्धविनिवेशोऽप्यावश्यक इति सारः । सोऽयम् -
“उक्तोभयसम्बन्धेन यज्जातिविशिष्टजातित्वं यत्र तत्र तज्जातिव्यापकत्वमिति नियमः, दृष्टश्चासौ पृथिवीत्वव्यापके द्रव्यत्वादौ, एतादृश नियमभङ्गापत्तिरेव साङ्कर्यस्य जातित्वबाधकत्वे मानम्, साङ्कर्यस्थले जातित्वस्वीकार एतादृश नियमभङ्गापत्तेरिति भाव" इत्यादिरा मरुद्रया दिलेखमूलको बोध्यः ।
किञ्च -- यथा भूतत्वमूर्त्तयोः सङ्करो जातिबाधकः एवं शरीरत्वेन्द्रियत्वयोरपि । तथाहि —शरीरत्वात्यन्ताभाववति घटादौ पृथिवीत्वं वर्त्तते, तथा पृथिवीत्वात्यन्ताभाववति जलीयशरीरादौ शरीरत्वं धर्मोऽप्यस्ति । एवं परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोर्मनुष्यादिशरीरेषु समावेशरूपः सङ्करस्तयोर्जातित्वे बाधक इत्याद्यग्रे मूलेऽपि स्फुटभविष्यति । नच वाच्यं शरीरत्वेन्द्रियत्वधर्मयोजतित्वे यथा सङ्करस्य बाधकता, तथा पृथिवीत्वजलत्वादीनामपि कुतो नास्य बाधकत्वमिति, ययोः साङ्कर्य तयोरेव तस्य बाधकत्वाऽभ्युपगमात् । केचित्तु — एकस्यैव धर्मस्य सङ्करप्रयुक्तजातिबाधकत्वमाचक्षते । तेषां मते भूतत्वमूर्त्तत्वयोः सङ्करस्थलेऽपि भूतत्वमेव न जाति:, मूर्त्तत्वन्तु मूर्त्तद्रव्यवृत्तिक्रियासमवायिकारणतावच्छेदकतया जातिः सिद्ध्यतीत्याहु: । नवीनानां मते सङ्करस्य कुत्रापि जातिबाधकत्वं नास्तीत्यपि न विस्मरणीयम् ।
श्रयम्भावः – “यत्र मनसि मूर्त्तत्वं तत्रैव भूतत्वात्यन्ताभावः, यत्र श्राकाशे भूत वं तत्रैव मूर्त्तत्वात्यन्ताभावः " इत्यनया रीत्या परस्परात्यन्ताभावेन सामाना
M