________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे पाधिः" । उक्तञ्च "सिद्वान्त-चन्द्रोदये" यथा--अनुयोगितात्वप्रतियोगितात्व विषयतात्वादिः।
तुल्यव्यक्तिवृत्तित्वम् ( तुल्यत्वम् )- अन्यूनानतिरिक्तव्यक्तिकत्वम् । तच्च घटत्वकलशत्वयोर्जातिद्वयस्वरूपत्वे बाधकम् । अर्थात् घटकलशशब्दौ पर्यायौ तयोवाच्यभूतो घटपदार्थ एक एव–स एव घटत्वकलशत्वयोः समानमधिकरणमित्येकमेव घटत्वं जाति तु वे घटत्वकलशत्वे पृथक् जाती स्तः । “स्वभिन्नजातिसमनियतत्वं तुल्यत्वमि"ति फलितम् ।
सङ्करः परस्परात्यन्ताभावसमानाधिकरणयार्धर्मयोरेकन समावेशरूपः । स च भूतत्वमूर्तत्वयोर्जातित्वे बाधकः । अर्थात् पृथिवी, जलम्, तेजः, वायुः, अाकाशमिति पञ्च भूतानि, तवृत्तिधर्मों भूतत्वम् । आकाशं विहाय तत्स्थाने पञ्चमं मनो मेलयित्वा पञ्च मूर्त्तानि उच्यन्ते इति वैशेषिकाणां परिभाषा । भूतत्वं विहाय मूर्तत्वं मनसि, मूर्त्तत्वं विहाय भूतत्वमाकाशे वर्तते, पृथिव्यादिचतुष्टये च उभयोरेव धर्मयोः समावेशः।
अत्रेदं तत्त्वम्-परस्परात्यन्ताभावसमानाधिकरणयोधर्मयोरेकन समावेशरूपः सङ्करो भूतत्वादेर्जातित्वे बाधक इत्युक्तम् । भवति हि भूतत्वं विहाय मनसि वर्तमानस्य मूर्तत्वस्य, मूर्त्तत्वं विहाय आकाशे वर्तमानस्य भूतत्वस्य च पृथिव्यादिचतुष्टये समावेश:, तस्माद् भूतत्वं मूर्त्तत्वञ्चेति द्वयमपि न जातिः । एवम्भूतस्य सङ्करस्य जातिबाधकत्वे किं प्रमाणमिति चेत् ? अत्र ब्रम:
_ "स्वसामानाधिकरण्य-स्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्ट- ' जातित्वावच्छेदेन स्वसमानाधिकरणाभावप्रतियोगित्वाभाव एव" इति । अत्रायं पदकृत्यप्रकार:—सामानाधिकरण्यसम्बन्धेन द्रव्यत्वविशिष्टे पृथिवीत्वादी द्रव्यत्वसमानाधिकरणाभावप्रतियोगित्वस्यैव सत्त्वाव्यभिचारवारणाय स्वाभावसानाधिकरण्यपदप्रवेश: । अर्थात्-"स्वसामानाधिकरण्यसम्बन्धेन" इत्येतावन्मात्रोक्तो निरुतसम्बन्धे "स्व". पदेन द्रव्यत्वस्यापि ग्रहणं शक्यते कर्तुम् , तत्सामानाधिकरण्यसम्बन्धेन स्वसमानाधिकरणे जले वर्तमानो यः पृथिवीत्वाभावः तत्प्रतियोग्येव पृथिवीत्वं नाप्रतियोगीत्यतो द्वितीयसम्बन्धनिवेशः स्वाभावसामानाधिकरण्येनेति । अत्र-"स्व"पदेन द्रव्यत्वग्रहे सुशके तदभावसमानाधिकरणस्य पृथिवीत्वस्याऽभावात् पृथिवीत्वं ग्राह्यम् । पृथिवीत्वाभावेन जलादौ द्रव्यत्वस्य सामानाधिकरण्यमस्त्येवेति तेन सम्बन्धेन द्रव्यत्वविशिष्टे पृथिवीत्वादी स्वसामानाधिकरण्याभावः पृथिवीत्वस्य वक्तुमशक्यः किन्तु जलवाभावो ग्रहीतुं सुशकः, तत्प्रतियोगि जलत्वं न पृथिवीत्वम् । एवं स्वसमानाधिकरणाभावप्रतियोगित्वाभाव एव पृथिव्यामिति नोक्तनियमभङ्गप्रसङ्गः । जलत्वाद्यभावसमानाधिकरणे तत्रैव-दव्यत्वविशिष्टे पृथिवीत्वादावेव जलत्वसमानाधिकरणाभावप्रतियोगित्वस्यैव सत्त्वात्तदोषतादवस्थ्यम् , अत: स्वसामानाधिकरण्यप्रवेश: । अर्थात् उक्तेन