________________
जातिबाधकसङ्ग्रहः।
सति" इत्युपात्तम् । एवञ्च गगनपरिमाणादिषु अतिव्याप्तिवारणाय "अनेक" इति पदं “समवेत''पदात्पूर्व धृतम् । गगनस्य महत्परिमाणमस्ति च तत् नित्यम् अथच समवेतम् । परन्तु तत्समवायाख्यसम्बन्धेन गगनवृत्त्येव नत्वनेकवृत्ति ( नबनेकासु व्यकिषु वर्त्तते ) । "आदिना' परमाणुपरिमाणादिसङ्ग्रहः । नित्यत्वे सति अनेकेषु वृत्तिरत्यन्ताभावस्थाप्यस्ति--अर्थात् अत्यन्ताभावो नित्योऽथ चानेकाधिकरणवृत्तिश्च यथा-रूपात्यन्ताभावो वायौ, आत्मनि, अाकाशे, काले च इत्याद्यनेकाधिकरणेषु वर्त्तते । तथासति यदि “समवेत"पदं विहाय "नित्यत्वे सत्यनेकवृत्तित्वम्” इति लत्तणं क्रियेत तदा अत्यन्ताभावेऽपि लक्षणस्यातिव्याप्तिः स्यात्, तद्वारणाय साधारणवृत्तित्वं विहाय समवायसम्बन्धेन वृत्तित्वं गृहीतम् । नित्योऽपि सन्नत्यन्ताभावः स्वाधिकरणेषु स्वरूपसम्बन्धेन वर्तते, नतु समवायसम्बन्धेनेति सर्वथा निर्दुष्टं निर्दिष्टं सामान्यणक्षणम् । यत्तु-नित्यमेकमनेकानुगतं सामान्यमित्युक्तं तत्रैकपदं स्वरूपकथनमात्रपरम् । “अनेकसमवेतत्वम्” इति विशेष्यदलं जलपरमाण्वादिनिष्ठे रूपेऽतिव्याप्तिवारणार्थकं वा बोध्यम् । ' अथ शिष्यो जातिस्वरूपं सम्यक् जानीयात् इति जातिबाधकान् सङ्ग्रहीतुमाह- "एकव्यक्तिवृत्तिस्तु” इति । अथवा-- एकैकव्यक्तिवृत्तिष्वाकाशत्वादिषु जातिव्यवहारो माभूदित्याह- "एक"-इति । अत्र प्राचां सम्मतिमाह--"तथा चोक्तम्" इति । किरणावलीग्रन्थे उदयनाचार्यैरिति शेषः । व्यक्तरभेद इत्याद्याः षट् जातिबाधकाः । तथा हि
* व्यक्तेरभेदः-स्वाश्रयव्यक्लेरैक्यम् अर्थात् यो धर्म एकस्यामेव व्यक्ती वर्त्तते स न जातिः । यथा आकाशत्वं, कालत्वं, दिक्त्वञ्चैकैकव्यक्तिवृत्तित्वान्न जातिः । किन्तु आकाशत्वादिकमुपाधिः । जातिभिन्नो धर्म + उपाधिः। स द्विविधः सखण्डोपाधिः अखण्डोपाधिश्च । यस्तावन्निवक्तुं शक्यते स "सखण्डोपाधिः' । यथा-"नित्यत्वे सत्यनेकसमवेतत्वं सामान्यत्वम्, स्वपरव्यावर्त्तकस्वभावत्वं विशेषत्वम्, नित्यसम्बन्धत्वं समवायत्वम्, शब्दसमवायिकारणत्वमाकाशत्वम्, अतीतादिव्यवहारहेतुत्वं कालत्वम्, प्राच्यादिव्यवहारहेतुत्वं दिक्त्वम्” इति सामान्यत्वविशेषत्वसमवायत्वाकाशत्वकालत्वदिक्त्वानि धर्माः सखण्डोपाधयः । यश्च धर्मो निर्वक्तुं न शक्यते, असौ : "अखण्डो
* अनेकासु घटपटादिव्यक्तिषु समान(एक)धर्मप्रकारक बुद्ध्युपपत्तये घटत्वपटत्वादिजातिकल्पना भवति । एकस्यां व्यक्तौ तु न तादृशी अनुगतप्रतीतिर्जायते, एकव्यक्तौ तु तद्व्यक्तित्वमादायापि तद्धर्मप्रकारकप्रत्ययः सम्पादयितुं शक्यते इति तदतिरिक्तजातिकल्पने मानाभावः ।
+ यद्यपि धर्ममात्रमुपाधिस्तथापि जात्यतिरिक्तधर्मे उपाधिव्यवहारः प्रायिको नैयायिकानाम् ।
* अखण्डोपाध्यतिरिक्तानामेव धर्माणां निर्वचनाहत्वमित्ययं नियमो बोध्यः ।