________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
( प्रभा० ) उद्देशक्रमप्राप्तं सामान्यं निरूपयितुमाह - सामान्यमिति ।
( मुक्रा० ) सामान्यं निरूपयति - सामान्यमिति । तल्लक्षणं तु नित्यत्वे सति अनेकसमवेतत्वम् । अनेकसमवेतत्वं संयोगादीनामप्यस्त्यत उक्तं नित्यत्वे सतीति । नित्यत्वे सति समवेतत्वं गगनपरिमाणादीनामप्यस्त्यत उक्तमनेकेति । नित्यत्वे सति अनेकवृत्तित्वमत्यन्ताभावेऽप्यस्त्यतो वृत्तित्वसामान्यं विहाय समवेतत्वमित्युक्तम् । एकमात्र व्यक्तिवृत्तिस्तु न जातिः । तथाचोक्तम्
३४
[ प्रत्यक्षखण्डे
व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ॥ १ ॥
द्रव्यादीति । * परत्वमधिकदेशवृत्तित्वम् । अपरत्वमल्पदेशवृत्तित्वम् । सकलजात्यपेक्षयाऽधिकदेशत्रुत्तित्वात् सत्तायाः परत्वम् । तदपेक्षया चान्यासां जातीनामपरत्वम् ||८||
( प्रभा० ) " तल्लक्षणन्तु " इति । तदेव (हि) लक्षणं भवति, यदव्याप्त्यतिव्याष्त्यसम्भवरूपदोषत्रय शून्यम् । यथा - गोः सान्नादिमत्त्वम् । अव्याप्तिश्च लच्यैकदेशाऽवृत्तित्वम् । एवञ्च - " गोः किं लक्षणम्" इत्युक्ते यदि कश्चिद् ब्रयात् “ कपिलत्वं गोत्वम्" इति तन्न लक्षणम् । कपिलत्वस्य लक्ष्यभूताया गोरेकदेशवृत्तित्वेनाव्याप्तिग्रस्तत्वात् । श्रतिव्याप्तिश्च लक्ष्यवृत्तित्वे सत्यलच्यवृत्तित्वम् । श्रत एव - गोर्न शृङ्गित्वं लक्षणम् । शृङ्गित्वस्य हि लक्ष्यभूतायां गवि वृत्तिरस्ति, अथ च श्रलक्ष्य भूतासु महिष्या - दिव्यक्तिष्वपि वृत्तित्वं तेनातिव्याप्तिर्लक्षणदोष: । असम्भवश्च लक्ष्यमात्रावृत्तित्वम् । अत एव —— गोरेकशफत्वं न लक्षणम् । एकशफत्वस्य कुत्रापि गव्यसम्भवात् । एतद्दोषत्रयरहितं सामान्यलक्षणं दर्शयितुमाह – “तल्लक्षणन्तु ” इति । लत्तणस्य प्रयोजनन्तु इतरभेदज्ञानं व्यवहारो वा । " " यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्" इत्युक्तेः । तथा च - " सामान्यमितरेभ्यो द्रव्यादिभ्यो भिद्यते, सामान्यमित्याकारकव्यवहारविषयो वा भवति, नित्यत्वे सति श्रनेकसमवेतत्वात् यन्नैवं तन्नैवं यथा द्रव्यम्” इति । एवमेव सर्वत्र लक्षणेषूहनीयम् ।
"
सामान्यलक्षणस्य पदकृत्यं दर्शयति-- "अनेकसमवेतत्वम्" इत्यादिना । समवेतत्वं समवायसम्बन्धेन वृत्तिमत्त्वम् । वृत्तिश्चाधेयता । अनेकत्वञ्च एक भिन्नत्वम् । "संयोगादीनाम्" इति । तथा च--- -यदि नित्यत्वपदं विहाय अनेकसमवेतत्वमात्र लक्षणं क्रियेत, तदा संयोगादिष्वतिव्याप्तिर्लक्षणदोषः स्याद् श्रतस्तद्वारणाय " नित्यत्वे * ननु – सामान्यस्य अद्रव्यतया दैशिककालिकपरत्वापरत्वानाश्रयत्वात् परमपरचेति सामान्यस्य विभागकरणमयुक्तमिति शङ्कां परिहर्तुमिव पारिभाषिकपरत्वादिनिर्वचनं दर्शयति" परत्वम् - " इति ।