________________
कर्म-सामान्ययोविभागः।
तात्वाद्" इत्यनुमानं गुणत्वजातिसाधकमित्यादि-गुणत्वजातिसिद्धिप्रकारो * गुणनिरूपणावसरे दर्शयिष्यत इत्यर्थः ॥३, ४, ५॥ (का०) उत्क्षेपणं ततोऽपक्षेपणमाकुश्चनं तथा ।
प्रसारणं च गमनं कर्माण्येतानि पञ्च च ६। (मुक्का०) कर्माणि विभजते--उत्क्षेपणमिति--कर्मत्वजातिस्तु प्रत्यक्ष- , सिद्धा । एवमुत्क्षेपणत्वादिकमपि ॥६॥
(प्रभा०) "कर्माणि विभजत' इति । अत्रापि विभागार्थलापनं पूर्वनिर्दिष्टदिशा ज्ञेयम् । “संयोगन्नित्वे सति संयोगासमवायिकारणं कर्म' इति कर्मसामान्यलक्षणम् । संयोगेऽतिव्याप्तिवारणाय भिन्नत्वान्तम् । घटादावतिव्याप्तिवारणाय कारणत्वान्तम् । "कर्मत्वजातिमद्वा" इति लघुलक्षणम् । "प्रत्यक्षसिद्धा" इति-"अयं चलति अयं चलति" इत्याकारकचलनानुगतप्रतीतिवेयैव कर्मत्वजातिरिति नास्ति तत्सिद्धावनुमानादिप्रमाणाद्यपेक्षेति भावः ।
ऊर्ध्वदेशसंयोगानुकूलो व्यापार उत्क्षेपणम् । अधोदेशसंयोगानुकूलो व्यापारोऽ. वक्षेपणम् । शरीरसन्निकृष्टदेशसंयोगानुकूलो व्यापारः प्रसारणम् । उत्तरदेशसंयोगानुकूलो व्यापारो गमनम् । तथा च कणादसूत्रम्उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि ।
(वै०१।१।७) इति ॥६॥ (मुक्का०) नन्वत्र भ्रमणादिकमपि पञ्चकर्माधिकतया कुतो नोक्तमत प्राह(का०) भ्रमणं रेचनं स्यन्दनोव॑ज्वलनमेव च ।
तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ॥७॥ (प्रभा०) "अधिकतया" इति । कर्मविभाजकोपाधिभिभ्रमणत्वादिभिः । मूले (कारिकायां) गमनादेवेति । तथा च प्रशस्तपादभाष्यम् – “गमनग्रहणाद् भ्रमणरेचनस्यन्दनो_ज्वलनतिर्यपतनोन्नमनादयो गमनविशेषा न जात्यन्तराणि" इति ।
ननु-उत्क्षेपणादीनामपि गमनेऽन्तर्भावात् गमनमेवैकं कर्म कथनीयं स्यात् उत्क्षेपणत्वादिविभागो न कर्त्तव्य इति चेद् न ? स्वतन्त्रेच्छस्य मुनेर्नियोगपर्यनुयोगानहत्वात् । अतिगम्भीरार्थस्याऽस्य शास्त्रस्य बोधे यथासम्भवं सरलेनोपायन मुनिप्रवृत्तिरिति भावः ॥७॥ (का०) सामान्यं द्विविधं प्रोक्तं परं चापरमेव च ।
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥८॥ ८६ षडशीतितमायाः कारिकाया व्याख्यान इत्यर्थः ।