________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः
[प्रत्यक्ष खण्डे
द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ॥१६॥ तेजसोद्रव्यान्तरेणावरणाश्च ॥२०॥
इति पञ्चमाध्यायस्य द्वितीयाह्निके सूत्राभ्यां तमोविषयेऽपि महर्षिविचारणायाः कृतत्वात् । तस्मान्मुक्तावल्यादिग्रन्था ऋषिविरुद्धत्वाद्धेया एवेति भणन्तो विकृतबुद्वय आधुनिका एव हेया मन्तव्याः।
इति तमोवादः ।
(का०)-अथ गुणाः रूपं रसो गन्धस्ततः परम् ।।३।।
स्पर्शः सङ्ख्या परिमितिः पृथक्त्वञ्च ततः परम् । संयोगश्च विभागश्च परत्वश्चापरत्वकम् ॥४॥ बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ।
द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥॥ (मुक्का०) गुणान्विभजते-"अथ गुणा" इति । एते गुणाश्चतुर्विशति. सङ्ख्याकाः कणादेन कराठतः चशब्देन च दर्शिताः । तत्र गुणत्वादिक. जातिसिद्धिरग्रे वक्ष्यते ॥३--५॥
(प्रभा०) "गुणान्विभजत" इति । "स्वसमभिव्याहृतपदार्थतावच्छेदके '. त्यादिविभजतेरर्थः पूर्ववद् घटनीयः । तथाहि-"स्वं" विपूर्वको भजधातुः, तत्समभिव्याहृतं यत्पदम्, प्रकृते च गुणपदमेव तदर्थतावच्छेदकः-तदर्थे विशेषणीभूतः यो धर्मो गुणत्वरूपः, तद्व्याप्या मिथः परस्पर विरुद्धाः असमानाधिकरणाः ये यावन्तोऽनेके धर्मा: रूपत्वादयः, तत्प्रकारकं यज्ज्ञानं रूपं, रसः, गन्ध इत्याद्याकारकम्, तदनुकूलः-तजनकः व्यापारः पद्यात्मकवाक्यप्रयोगरूपः स एव विभाग इति बोध्यम् । द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वं गुणसामान्यलक्षणम् । ___ "कण्ठत" इति-"रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्क संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः" (वै० १।। ६) इति विभागसूत्रे सप्तदश कण्ठेनोक्ता । “च शब्देन” इतिसूत्रस्थचशब्देन गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाः समुच्चिताः । ते च सर्वे सङ्कलनया चतुर्विंशतिसङ्ख्या भवन्ति । तथा च–प्रशस्तपादभाष्यम्-"चशब्दसमुच्चिताश्च गुरुत्वद्वत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येव चतुर्विशतिगुणाः” इति । अदृष्टशब्देन धर्माधर्मयोरुपसङ्ग्रह इति तद्वयाख्यातारः। तत्र-गुणेस्वित्यर्थः । गुणत्वजातिसिद्धिरित -द्रव्यकर्मभिन्नसामान्यवति या कारणता सा किञ्चिद्धर्मावच्छेया कारण