________________
तमसोऽभावेऽन्तर्भाव:, पदार्थसङ्ख्यानस्यार्षत्वञ्च । स्यादेतत्--माभूत् तमो द्रव्यं सुवर्णन्तु भविष्यति, तथा च नवत्वव्याघातस्तदवस्थ एवेत्यत अाह--"सुवर्णस्य" इति । “वक्ष्यते" इति । अग्रे तेजोग्रन्थे निरूपयिष्यत इत्यर्थः *।
सर्वस्यास्य ग्रन्थस्यायं सारः--'तमः खलु चलं नीलं परापरविभागवत् प्रसिद्धद्रव्यवैधान्नवभ्यो भेत्तुमर्हति" इति मीमांसकानां प्रवादो न युक्तः, यतः-- "तमो द्रव्यं न भवति आलोकनिरपेक्षचनुाह्यत्वाद् आलोकाभाववत्" । किन्तु प्रौढप्रकाशकतेजःसामान्याभाव एव तमः। तत्र नीलं तमश्चलतीतिप्रतीतिर्धमः। नीलत्वं हि खनीलिमवद् दृष्टिदोषजनितम् । चलत्वचालोकापसारणौपाधिकं भ्रमः । तस्मात्तेजोभावस्तमो नाधिकं द्रव्यम् । नच तमोऽभाव एव तेजः--किं न स्यादिति वाच्यम्, उष्णस्पर्शस्यापलपितुमशक्यत्वादित्याद्यधिकमन्यत्रानुसन्धेयम् ।
- इदञ्च पदार्थानां सङ्ख्यानं द्रव्याणां विभजनञ्च महर्षि कणाद"प्रणीतसूत्रमूलकम् । तथा च
___ + धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधाभ्यां तत्वज्ञानानि श्रेयसम्।
(वै०१।१।४) पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ।
(वै० १।१।५) इति सूत्रे स्तः। . नचर्षिसूत्रे षडेव पदार्थाः सङ्ख्याता अत्र तु सप्तमोऽप्यमाव इति महर्षिविरुद्धा विश्वनाथकल्पनेति वाच्यम् , सूत्रे तु अभावस्य भावतन्त्रत्वात्पृथगुपदेशो न कृतः । अत्र तु बालबुद्धिवैशद्यार्थं सप्तमोऽभावः पृथगुपदिष्टः । अन्यथर्षिः नवमाध्यायस्य प्रथमाह्निके * “क्रियागुणव्यपदेशाभावात्प्रागसत्" () इत्यादिसूत्रैः कथमभावमवर्णयिष्यदिति दिक् । .. ननु तमसोऽधिकद्रव्यत्वादिकल्पना तत्खण्डनप्रकारश्च विश्वनाथस्याऽनार्ष एव इति चेन्न--
* "सुवर्ण तैजसम्" इत्यादिना अनुमानेन ।
+ "धर्मविशेषप्रसूतात्"-धर्मविशेषः ऐहिको जन्मान्तरीणो वा सुकृतिविशेषः तत् प्रसूतात्-तजन्यात् तस्वज्ञानादित्यर्थः । सुकृतविशेषण पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानं ततः आत्ममननोत्तरं निदिध्यासनेनात्मसाक्षात्कारो भवति, ततो मिथ्याज्ञानादिनाशक्रमेण मोचो भवतीति सारार्थः ।
__. * क्रियाया गुणस्य च व्यपदेशस्य व्यवहारस्याभावात् प्राक् उत्पत्तः प्राक् कार्यमसदित्यर्थः । घटोत्पत्तेः पूर्व घटप्रागभावस्तिष्ठति-"इहेदानी घटो भविष्यति" इति प्रत्यक्षमपि प्रागभावे प्रमाणमित्याशयः।