________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
प्रमाणयति-"तस्य च" इति प्रादिना । तथा च-तमो द्रव्यं रूपवत्त्वात् कर्मवत्त्वात्-क्रियावत्त्वात् घटादिवत्" इत्यनुमानं तमसो द्रव्यत्वे प्रमाणमिति फलितम् । एवम्-"तमो द्रव्यं परत्वाद्याश्रयत्वात् घटवत्' इत्यनुमानमपि ज्ञेयम् । भवति च प्रतीतिः-"इदं तमः परम्, इदं तमोऽपरमिति ।
ननु-तमसो रूपवत्त्वे मानाभावः, "नीलं तम" इति प्रतीतिस्तु भ्रमरूपैव इत्याक्षेपे हेत्वन्तरमाह-'कर्मवचात्" इति । नीलं तमश्चलतीति श्राबालप्रसिद्धा प्रतीतिरबाधितेति नैव उनप्रतीतेभ्रंमत्वमिति भावः।
___नन्वस्तु तमसः पृथिव्यादिद्रव्येष्वेवान्तर्भावः किमधिककल्पनया इति शङ्कां निराकुरुते-"तद्धि" इत्यादिना । "जलादिकम्" इति । श्रादिना तेजःप्रभृतिद्रव्यसङ्ग्रहः । तथा च नवसु द्रव्येष्वन्तर्भावाभावेन * परिशेषतयाऽधिकमेव द्रव्यं तमः ।
ननु-तमो यदि रूपादिमद् द्रव्यं तथा घटादिवत् पालोकसहकृतेन चक्षुषा कुतो न गृह्यते द्रव्यप्रत्यक्ष आलोकसापेक्षमेव चचुरिन्द्रियं कारणं यतः, इत्याशङ्कावारणाय आह-"तत्प्रत्यक्षे च" इति । तमःप्रत्यक्षे चेत्यर्थः । तथा च तमोभिन्नद्रव्यचाक्षुषप्रत्यक्ष एव पालोकसहकृतं चतुरिन्द्रियं कारणमिति भावः । इति मीमांसकपूर्वपक्षः।
अथ सिद्धान्ती "चेन्न" इत्यादिग्रन्थेन तमसोऽभावेऽन्तर्भावं कुर्वन् मीमांसकमतं खण्डयति-"आवश्यकतेजोभावेन" इति । प्रौढप्रकाशकतेजःसामान्याभावेनेत्यर्थः । प्रौढप्रकाशकत्वञ्च उष्णस्पर्शभास्वरस्वरूपवत्त्वं तद्धर्मवद्यत्तेजः तस्य सामान्याभाव एव तमो न भावान्तरमिति भावः । उपपत्ती-तमोज्यवहारोपपत्तौ ।
ननु-तेजोऽभावश्चेत् तमः कथं तर्हि तत्र रूपप्रतीतिः अभावस्य नीरूपत्वात् इत्याशङ्कायामाह-'रूपवत्ता” इति । स्पष्टमन्यत् । भवतु रूपवत्ताप्रतीतेस्तत्र भ्रान्तिरूपता परन्तु-'चलति" इति कर्मप्रतीत्या तमो द्रव्यं भविष्यति ? अत पाहकर्मवत्ताप्रतीतिरपि" इति । चलनात्मकक्रियाप्रतीतिरपि पालोकस्य प्रकाशस्य यदपसारणं तदेव उपाधिः तत | आगता, प्रकाशापसरणनिमित्ता तमसि चलनक्रियाप्रतीति न्तिरेवेत्यर्थः। दूषणान्तरमाह--"तमस" इति । "अवयवादि" इति-- आदिना उत्पत्तिध्वंसपरिग्रहः।
कन्दलीकारस्तु--आरोपितं नीलरूपं तम इत्याह--तदपि न विचारचारु, तथासति "इहान्धकार” इति प्रतीतिरपि भ्रमः स्यादित्यधिकमन्यत्र ।
* परिशेषाऽनुमानेत्यर्थः । एतस्य प्रपञ्चोऽये द्रष्टव्यः।
+ "चरति" (४ । ४ । ८) इति सूत्रेण तृतीयासमर्थादुपाधिशब्दात् ठक् प्रत्ययः । उपाधिना चरति प्राप्नोति इति "औपाधिकः" । स्त्रियां "टिड्ढाण"-४।१।१५) इति सूत्रेण औषि कृते । "औपाधिकी" इति रूपम् ।