________________
तमसोऽभावेऽन्तर्भावः। अत्र प्रागभावप्रतियोगित्वरूपस्य कार्यत्वस्य कार्यताऽवच्छेदकत्वे उपस्थितिकृतं गौरवम् । नित्यसंयोगवादिनये संयोगत्वावच्छिन्नकार्यताया अप्रसिद्धिः इत्यतो विभागपर्यन्ताऽनुधावनम् । नित्यविभागस्याश्रयताया असम्भवात् विभागत्वावच्छिन्नकार्यता सार्वजनीना-सर्वमतसिद्धा । एतदभिप्रायेणैव नित्यसंयोगाङ्गीकर्तुर्मतसाधारण्येनाह"विभागस्य" इति । नित्यसंयोगो विभुद्वयसंयोगः यथाऽऽत्माकाशयोः । द्रव्यत्वसिद्धेः द्रव्यत्वरूपजातिसिद्धेरित्यर्थः । एवञ्चोपरिदर्शितानुमानेन द्रव्यीयकारणतायाः किञ्चिद्धर्मसिद्धिः, यश्चासौ धर्मः स एव द्रव्यत्वम् , तस्य च वक्ष्यमाणव्यक्त्यभेदादिबाधकाभावाजातित्वमिति भावः ।।
. (मुक्का०) ननु-दशमं द्रव्यं तमः कुतो नोक्नं तद्धि प्रत्यक्षेण गृह्यते तस्य च रूपवचात् कर्मवत्वाच्च द्रव्यत्वम् । तद्धि-गन्धशून्यत्वान्न पृथिवी नीलरूपवयाच्च न जलादिकं, तत्प्रत्यक्षे चालोकनिरपेक्षं चतुः कारणमिति चेन, आवश्यकतेजोऽभावेनोपपत्तौ द्रव्यान्तरकल्पनाया अन्याय्यत्वात् । रूपवत्ताप्रतीतिस्तु भ्रमरूपा । कर्मवत्ताप्रतीतिरप्यालोकापसारणौपाधिकी भ्रान्तिरेव । तमसोऽतिरिक्लत्वेऽनन्तावयवादिकल्पना. गौरवं च स्यात् । स्वर्णस्य यथा तेजस्यन्तर्भावस्तथा वक्ष्यते ॥ .
(प्रभा०) तमोरूपदशमद्रव्यवादी मीमांसकः शङ्कते--"ननु" इति । तत्र प्रत्यक्ष प्रमाणयति--"तद्धि" इति तमोहीत्यर्थः । प्रत्यक्षण-चतुरिन्द्रियेण । गृह्यते= ज्ञायते । अस्तु तमसः प्रत्यक्षं परमिदं द्रव्यमेवेत्यत्र किं मानमित्यारेकायामनुमानं वच्छेदकः । स्वार्थे क: प्रत्ययः । एवञ्च “नियामको धर्मोऽवच्छेदक'' इति सिद्धं भवति । परन्त्वस्य निर्वचनप्रकारोऽनेकविधः । तत्रायं प्रायिकः--'अन्यूनानतिरिक्तवृत्तित्वमवच्छेदकत्वम्" इति । अर्थात् यो धर्मो न न्यूनवृत्तिः धर्मिण: अवच्छेद्यस्य एकदेशवृत्तिर्न भवति, नापि च ततोऽधिकदेशवृत्तिः अवच्छेद्यातिरिक्तपदार्थनिष्ठ: स्यात्, तदिदमेकविधमवच्छेदकत्वं ज्ञेयम् । यथा-गन्धवस्त्र पृथिवीत्वमिति पृथिवीलक्षणे गन्धवत्वं गन्धो धर्मः न पृथिव्या एकदेशे, नापि च पृथिव्यतिरिक्तजलादिषु वर्तते, किन्तु पृथिवीत्वसमानाधिकरणवृत्तिः अर्थात् पृथिवीमात्रवृत्तिरिति । एवम्---गन्धवत्त्वस्य पृथिव्याः अवच्छेदकत्वम् । एवम्-अवच्छेदकेन योऽवच्छिद्यते ब्यावर्त्यते धर्मी स तदवच्छिन्नोऽभिधीयते । यथा च गन्धवत्त्वेन पृथिवी इतरेभ्यो व्यावय॑ते इति पृथिवी गन्धवत्त्वा. च्छिन्ना इति वक्तुं पार्यते । अधिकमनुमानखण्डीयविवृतावग्रे द्रष्टव्यम् ।
* अयं भावः-कार्यत्वकार्यतयोरभेदात् अवच्छेधावच्छेदकभावस्य च भेदनियतत्वेन कार्यत्वावच्छिन्नकार्यतानिरूपितेति पक्षघटकत्वेऽसम्बद्धप्रलाप एवेत्यत आह–संयोगस्य विभागस्य वेति । तथा च–संयोगन्वकार्यत्वयोभिन्नयोरवच्छेद्यावच्छेदकभावस्य सुसम्पन्नत्वमिति द्वितीयानुमानोत्थानवीजम् । नह्ययं तर्कप्रधानतन्त्रे नियमो यट्टीकाकृद्भिः कैश्चिदुक्तं तदेवोपादेयं यथा मानवं वच:, अतो दिनकराद्यनुक्तमप्युपादेयमिति दण्डिविश्वेश्वराश्रमस्वामिनः ।