________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
भजधातुः, तत्समभिव्याहृतं यत्पदं प्रकृते द्रव्यपदमेव, तदर्थतावच्छेदकः - तदर्थे विशेषणीभूतः यो धर्मः द्रव्यत्वरूपः, तद्व्याप्याः = तन्निष्ठव्यापकतानिरूपितव्याप्यताश्रयाः मिथः = परस्परं विरुद्धा:= श्रसमानाधिकरणा: ये = यावन्तः अनेके धर्माः पृथिवी - त्वादयः, तत्प्रकारकं यज्ज्ञानं पृथिवी आप इत्यादि, तदनुकूलः = तज्जनकः व्यापारः = पद्यात्मकवाक्यप्रयोगरूपः स एव विभाग इत्यनया दिशा अन्यत्रापि घटनीयम् ।
* द्रव्यत्वजातिं साधयितुं प्रथमं शङ्कते - " ननु" इति । " किं मानम्” इति । अत्र " किं" शब्दः प्रश्ने । नत्वाक्षेप इति भावः ।
ननु – द्रव्यं द्रव्यमित्यनुगतप्रतीतिरेव द्रव्यत्वजातौ प्रमाणं स्यात् ? अत ग्रह -- " नहि " इति । तत्र = द्रव्यत्वे । प्राकृतानां - हालिकादीनां घृतादिषु द्रव्यत्वजाते रग्रहात् न सकलद्रव्यसाधारणतया द्रव्यत्वजातिसिद्धिरिति भावः । इतीति चेत् = यदि इत्येवमाशङ्कथेत न-तन इत्युत्तरमाह - " कार्य " -- इति । कार्यत्वञ्च - सच्चे सत प्रागभावप्रतियोगित्वरूपम्प्रकृते बोध्यम् । अस्याः परयं भावः
+ “यत्र समवायेन कार्यं तत्र तादात्म्येन द्रव्यम्" इत्यस्ति नियमः । तेनसमवायसम्बन्धावच्छिन्नकार्यत्वावच्छिन्नम्प्रति तादात्म्यसम्बन्धावच्छिन्ना या द्रव्यनिष्ठा समवायिकारणता सा किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् घटगत कार्यतानिरूपितदण्डवृत्तिकारणत्ववत् । यथा - दण्डवृत्तिकारणता दण्डत्वधर्मावच्छिन्ना तथा द्रव्यवृत्तिकारणता अपि द्रव्यत्वधर्मावच्छिन्ना, निरवच्छिन्नाया: कारणताया असम्भवात् । “या या कारणता सा सा किञ्चिद्धर्मावच्छिन्ना" इति सामान्यव्याप्तिः ।
२८
यद्वा --- समवायसम्बन्धावच्छिन्नसंयोगत्वावच्छिन्नसंयोगनिष्ठकार्यतानिरूपिता तादात्म्यसम्बन्धावच्छिन्ना द्रव्यनिष्ठा या समवायिकारणता सा किञ्चिद्धर्मावच्छिन्ना इति पक्षं साध्यञ्चोक्त्वा हेत्वादिनिवेश: पूर्ववत् ।
किंवा -- समवायसम्बन्धावच्छिन्नविभागत्वावच्छिन्न विभागनिष्ठकार्यतानिरूपिता या तादात्म्यसम्बन्धावच्छिन्ना द्रव्यनिष्ठा कारणता सा किन्चिद्धर्मावच्छिन्ना | हेतूदाहरणे पूर्ववत् ।
* " द्रव्यं गुणस्तथा कर्म" इति पदार्थोद्देशे द्रव्यमित्येकवचनेन द्रव्योद्देशात् जातावेकवचनमाभाति द्रव्यस्य नवविधत्वात् इत्यतो द्रव्यत्वजातौ जिज्ञासोत्पन्नेति विभावनीयम् ।
+ तथा च - ' - " समवायसम्बन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वम्" इति कार्यकारणभावो बोध्यः ।
* मुक्तावल्यादिनव्यन्यायग्रन्थेषु प्रायोवच्छेदकावच्छिन्नादिशब्दानां प्रयोगो यद्यपि वस्तुतत्त्वविवेचनाय नवीनैर्विशेषरीत्या श्राश्रितः तथाप्याधुनिकानां बालानां बहु भीतिञ्जनयतीति कृत्वा किञ्चिदेतस्य स्वरूपमत्रैव निरूप्यते—
अवच्छिद्यते=व्यावर्त्यते निरूप्यते नियम्यतेऽनेन धर्मेण धर्मी - इति श्रवच्छेदः । स एवा