________________
द्रव्यविभागः।
भिन्नत्वेन चन्द्रमुखयो कमाह्लादकरत्वं कारणतावच्छेदकभेदेन कारणताभेदस्यावश्यकत्वात् तथापि स्वोपधायकत्वसम्बन्धेन एकवैजात्यविशिष्टत्वमेव प्रकृते साधारणो धर्मः । मुखचन्द्रदर्शनजन्यञ्च एकजातरयमेव सुखमिति परः सारः । इदं प्राचां मतम् ।
___ नव्यास्तु-सादृश्यमतिरिक्तं मन्यन्ते । नच तदतिरिक्तपक्षे पदार्थविभागव्याघातः । साक्षात् परम्परया वा येषां पदार्थानां तत्त्वज्ञाने उपयोगस्ते सप्तवेत्यभिप्रायो यतः । एवञ्चैतस्मिन्मते अधिकरणत्वाधेयत्वादिकमपि पदार्थान्तरम् । अन्यथा संयोगादिरूपस्य तस्य "कुण्डे बदर"मितिवद् “बदरे कुण्ड"मित्यपि व्यवहारः स्यात् । कुण्डबदरसंयोगस्य द्विष्टत्वात् । एवं प्रतियोगित्वमाकाशत्वादिकमप्यतिरिक्कमेवेत्यन्यत्र विस्तरः। (कारि०) क्षित्यप्तेजोमरुद्वयोमकालदिग्देहिनो मनः ।
द्रव्याणि
(मुक्ता०) द्रव्याणि विभजते-क्षित्यबिति-क्षितिः-पृथिवी, श्रापो जलानि, तेजो-वह्निः, मरुवायुः, व्योम-आकाशः, काल-समयः, दिग्= श्राशा, देही-आत्मा, मनः, एतानि नव द्रव्याणीत्यर्थः । ननु-द्रव्यत्वजातौ किं मानम् । नहि तत्र प्रत्यक्षं प्रमाणं घृतजतुप्रभृतिषु द्रव्यत्वाग्रहादिति चेन्न कार्यसमवायिकारणतावच्छेदकतया, संयोगस्य, विभागस्य वा समवायिकारणतावच्छेदकतया तत्सिद्धेरिति ।
(प्रभा०) परममूले "द्रव्याणि" इति पदं द्रव्यस्वरूपविशिष्टार्थकम् । * गुणक्रियावत्त्वं समवायिकारणत्वं वा द्रव्यसामान्यलक्षणम् । अर्थात्-यत् समवायसम्बन्धेन गुणस्य कर्मणो वाऽऽश्रयः, यच्च कस्यापि समवायिकारणं भवेदेव, तदेव “द्रव्यं ' नाम ।
___ "विभजते' इति । स्वमभिव्याहृतपदार्थतावच्छेदकधर्मव्याप्यमिथोविरुद्धयाबद्धर्मप्रकारकज्ञानानुकूलो व्यापारो विपूर्वकभजधातोरर्थः । अत्र “स्वं' विपूर्वको
* ननु-गुणवत्त्वादेः स्वरूपलक्षणं न युज्यते लक्ष्यतावच्छेदकव्यापकं हि लक्षणं स्वरूपलक्षणम् । तटस्थलक्षणन्तु-लक्ष्यतावच्छेदकसमानाधिकरणम् । तस्यात्र नातीवोपयोगः । तथा च पाद्यक्षणे ( उत्पत्तिद्वितीयक्षणे ) "उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति" इति नियमात् गुणवत्त्वाभावात्, उत्पन्नविनष्टे (यादृशद्रव्यारम्भकसंयोगजन क्रियोत्पत्तेः तृतीयक्षणे अवयवान्तरे तादृशसंयोगनाशिका क्रिया जाता तादृशे) च द्रव्ये क्रियावत्त्वाभावात् अव्याप्तिर्लक्षणदोष इति चेन्न, गुणसमानाधिकरण(समवायसम्बन्धेन गुणववृत्ति)सत्ताभिन्नजातिमत्त्वस्य विवक्षायां दोषाभावात् ।
गुणादावतिव्याप्तिवारणाय गुणसमानाधिकरणेति जातिविशेषणम् । सत्तामादायातिव्याप्तिवारणाय सत्ताभिन्नेति। द्रव्यगुणान्यतरत्वमादाय अतिव्याप्तिवारणाय जातीति । अयमेव प्रकारोऽन्यत्रापि लक्षणेषु दोषवारणायानुसन्धेयः । प्रदर्शयिष्यते चापि तत्र तत्र ।