________________
२६ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे गौरवम्, तदपेक्षया एकैव शकिर्दाहकारणं युक्तमिति लाघवमित्यत अाह--"अनेनैव" इति । दाहादिकम्प्रति मण्यभावकारणत्वेन सामञ्जस्ये-सम्यङ् निर्वाहे सति । "अनन्तशक्ति"- इति । मणिसत्त्वाऽसत्त्वाभ्यां शक्केरसकृदुत्पादः तस्याः प्रागभावध्वंसौ चेत्येवं गुरुभूता कल्पनेत्यर्थः । तथा चातिरिक्तशतिवादिनः प्राभाकरमते एव गौरवमिति भावः ।
ननु-यदि शक्कि तिरिक्तः पदार्थः, तर्हि प्रतिबन्धकमणिसत्त्वेपि उत्तेजकमणिसन्निधिकाले कुतो दाह इत्याशङ्कय खण्डयति-"नच" इत्यादिग्रन्थेन । तथा च न केवलं मणिः चन्द्रकान्तमाणिः प्रतिबन्धक: किन्तु उत्तेजकाभावविशिष्टः सः, तदभावश्च उत्तेजकसमवधानकालेऽपि तिष्ठतीति नैव दोष इति भावः । ___इदन्तु बोध्यम्-विशिष्टाभावस्त्रिधा भवति, विशेषणाभावप्रयुक्तो विशेष्याभावप्रयुक्तः विशेष्यविशेषणोभयाभावप्रयुक्तश्चेति । यथा-यत्र केवलं पुरुषः, तत्रापि भवति प्रत्ययो "दण्डी पुरुषो नास्ति' इति । सोऽयं दण्डविशिष्टपुरुषाभाव: विशेषणाभावप्रयुक्तः । यत्र तु दण्डो वर्त्तते न पुरुषः तत्रापि “दण्डी पुरुषो नास्ति' इति प्रत्ययः, स च विशेष्याभावप्रयुक्तः । यत्र च न पुरुषो नापि दण्डः, तत्रोक्ताभावप्रत्यय उभयाभावप्रयुक्तः । प्रकृते तु उत्तेजकसत्त्वेन उत्तेजकाभावरूपविशेषणस्य असत्त्वात् उत्तेजकाभावाभावादित्यर्थः । अयं विशिष्टाभावो विशेषणाभावप्रयुक्तः । विशेषणम् उत्तेजकाभावः, तदभाव: उत्तेजकाभावाभावः, तत्प्रयुक्तोऽत्र विशिष्टाभावः, तमादाय दाहकारणतानिर्वाह इति निगूढाभिसन्धिः ।
सादृश्यस्यातिरिक्तपदार्थतां निराकरोति-"सादृश्यमपि" इति । नेति-पृथक्पदार्थान्तरम् स्वतन्त्रः पदार्थो नास्तीत्यर्थः । किन्तु-तद्गतभूयोधर्मवत्त्वमिति-तत्र-उपमानभूते चन्द्रादौ साधारण्येन विद्यमाना ये भूयांसो धर्माः प्राह्लादकत्वाद्याः तद्वत्त्वमित्यर्थः । उक्नं सादृश्यलक्षणं घटयति-"यथा" इत्यादिना । "तद्भिन्नत्व" इति । तद्भिन्नत्वं नाम तत्प्रतियोगिकभेदवत्त्वम् । भेदवत्त्वञ्च भेदः स च अन्योन्याभाव एव । एवं धर्मवत्वं-धर्मः सोऽपि विशेषणीभूतगुणक्रियादिरूप एवेत्यर्थः ।
अयं भावः-सादृश्यघटकधर्मः क्वचिजातिरूपः। यथा घटसदृशः पटः । क्वचिदुपाधिरूपः । यथा गोत्वं नित्यं तथाश्वत्वमपीति । यथा वा “चन्द्रसदृशं मुखम्" इत्यादौ अाह्लादकत्वादिधर्मः सादृश्यमिति तदतिरिक्तकल्पनायां गौरवमेव । श्राह्लादः सुखविशेषः,
आदिना वर्तुलत्वतेजस्वित्वादिपरिग्रहः । “चन्द्रभिन्नत्वे सति" इति । अस्यायमाशयः-“चन्द्रसदृशं मुखम्" इत्यादी वाक्ये चन्द्रगताह्लादकजातीयाह्लादकत्वमेव मुखेऽनुयोगिनि चन्द्रप्रतियोगिकं सादृश्यम् । सादृश्यस्याप्यनुयोगिप्रतियोगिभ्यां निरूप्यमाणस्वात् । श्राह्लादश्च सुखविशेषः-यद्यपि चन्द्रमुखदर्शनजन्ययोः सुखयो