________________
शक्तिसादृश्ययारेभावाद्यन्तर्भावः।
पवासाद्धः ।
(प्रभा०) एवमतिरिक्तां शक्ति साधयित्वा सादृश्यस्याप्यतिरिकपदार्थतां साधयति-एवमित्यादिना । “अतिरिक्तः पदार्थः” इत्यस्यार्थ: सप्तपदार्थभिन्न: स्वतन्त्रः पदार्थः । इयं प्रतिज्ञा । तथा च प्रयोग: कर्तव्यः-"सादृश्यमतिरिक्त: पदार्थः षट्सङ्ख्याकभावपदार्थानन्तर्भूतत्वे सति अभावानन्तर्भावाद्" इति ।
___'भावानन्तर्भूतत्वे सति" इत्यस्य विशेषणस्य असिद्धिं वारयति-"तद्धि" इति । हि-यतः तत् सादृश्यम् । न षट्सु भावेषु-द्रव्यादिसमवायान्तेषु अन्तर्भवति । अत्र हेतुमाह-"सामान्येऽपि" सामान्यात्मके धर्मणि धर्मरूपेण सत्वात्-प्रतीयमानस्वादित्यर्थः । “सादृश्यं न षट् पदार्थेष्वन्तर्भवति सामान्येतरवृत्तित्वे सति सामान्यवृत्तित्वात्" इत्यनुमानेन सादृश्यस्य भिन्नपदार्थत्वसिद्धिः ।
सादृश्यसाधिका स्वतन्त्रप्रतीतिमभिलापयति-"यथा" इति । नन्वस्तु सादृश्यमभावविशेष इत्याशङ्कायामाह-"नापि” इति । सच्चेन-भावत्वेन । प्रतीय मानत्वात् प्रमीयमाणत्वात् । नयभावपदार्थे भावोऽन्तर्भवितुमर्हतीति भावः ।
____एवं प्राभाकरेण साधितां शक्ति तावत् दूषयितुमाह--"इति चेन्न" इति । दूषयति-"मण्याद्यभाव" इति । उत्तेजकाभावविशिष्टो य: प्रतिबन्धकश्चन्द्रकान्तमणिस्तदभावविशिष्ट वह्नयादेरित्यर्थः । अस्यायमभिप्राय:--न वयं दाहम्प्रति वह्निमेव कारणं नमः किन्तु मण्याद्यभावविशिष्टो वह्निदहिस्य कारणं न वह्निमात्रम् । किंवामणिसामान्याभाव एव दाहस्य हेतुः । तथा चातिरिक्तशक्तिकल्पनमनुचितम् । एवञ्च यत्र वह्निरस्ति, मणिरूपं प्रतिबन्धकञ्चास्ति तत्र नैव दाहः । क्वचित्तु प्रतिबन्धकमणिसद्भावाद्वह्निरेव न भवतीति नैव दाहः । तथा चातिरिक्तशक्लिपदार्थस्वीकारस्य नावश्यकता । प्रतिबन्धकन्तु-कार्यानुकूलधर्मविघटकत्वम् । उत्तेजकत्वञ्च प्रतिबन्धकसत्त्वेपि कार्यजनकत्वम् इत्याद्यन्यत्र विस्तरः ।
__ (मुक्का०) अनेनैव सामञ्जस्ये अनन्तशक्तितत्प्रागभावध्वंसकल्पनानौचित्यात् । न चोत्तेजके सति प्रतिबन्धकसद्भावेऽपि कथं दाह इति वाच्यम् । उत्तेजकाभावविशिष्टमण्यभावस्य हेतुत्वात् । सादृश्यमपि न पदार्थान्तरम्, किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवस्वम् । यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्वं मुखे चन्द्रसादृश्यामिति ॥२॥ (प्रभा) ननु-दाहम्प्रति वह्निः कारणं मण्यभावो वा कारणमिति कारणद्वयकल्पने
* अत्र 'समवायसम्बन्धावच्छिन्नदाहत्वावच्छिन्नदाहनिष्ठकार्यतानिरूपिता तादात्म्यसम्बन्धावच्छिन्नोत्तेजकाभावविशिष्टमण्याद्यभावविशिष्टवह्नित्वावच्छिन्ना वहिनिष्ठा कारणता" इति कार्यकारणभावो बोध्यः ।
विनिगमनाविरहात् मण्यभावविशिष्टवह्नित्वेन वह्निविशिष्टमण्यभावत्वेन वा गुरुधर्मावच्छिनकारणताद्वयापत्तिरिति तु हृदयम् ।