________________
२४ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे पृथक्पदार्थभावखण्डनं कृतं तत्सर्व बोधयितुं 8 “ननु" इत्यादि "चन्द्रसादृश्यम्" इत्यन्तं प्रथ्नाति ।
प्राभाकरः (शाक्तसादृश्ययोरतिरिक्रपदार्थत्ववादी) शङ्कते-"ननु” इति । एते एव-द्रव्यादय: सप्तैव । "अतिरिक्त" इति–सप्तपदार्थातिरिक्रेत्यर्थः । शक्ते: सादृश्यस्य च अतिरिक्तपदार्थभावं व्यवस्थापयति-"तथाहि” इत्यादिना । मण्यादि. समवहितेन-चन्द्रकान्तमण्यादिसमीपवर्त्तिना । अादिपदेन मन्त्रौषधितप:समाधीनां परिग्रहः । तथा च योगसूत्रम्-'जन्मौषधितपःसमाधिजाः सिद्धयः” (यो० के० पा० १) इति । अत्र मण्यादीनामोषधिपदोपलक्षितत्वं ज्ञेयम् ।
ननु-“यत्र वह्निरूपकारणाभाव: तत्र दाहाभाव" इति नैव मण्यादीनां दाहप्रतिबन्धकत्वम् ? अत आह-"मण्यादिसमवहितेन वह्निना" इति । मण्यादिसमवहितेन-मण्यादिसन्निधिमता । दाहो रूपान्तरोत्पत्ति: पूर्वरूपपरावृत्तिर्वा । "दाहः= दाहानुकूला शक्ति"रिति व्याख्यानन्तु न युक्तमित्यन्तर्मुखमालोक्यताम् । मण्याद्यतिरिक्तस्य न प्रतिबन्धकत्वमित्याह-"तच्छून्येन" इति । मणिसन्निधिशून्येनेत्यर्थः । तत्र-पूर्वोक्कयुक्त्या सिद्धौ।
तथा च वह्निनिष्ठशक्तित्वावच्छिन्नम्प्रति मणित्वेन नाशकत्वस्वीकारेण मण्यादिसत्वदशायां शक्लेरभावादेव न दाह इति भावः ।
ननु-यदि मण्यादिना वह्निशक्किनश्यति तदा उत्तेजकनामकमणिसत्त्वदशायां शक्तिनाशकमण्यादेाऽपसारणकाले पुनर्वहिना दाहो न स्यात् , अत अाह--उत्तेजकेन इति । "मण्याद्यपसारणेन च" इत्यत्र चकारो विकल्पार्थे । “नाश्यते” इति पदस्य "कल्प्यते” इत्यनेनान्वयः । कल्प्यते अनुमीयते । अनुमानप्रकारश्चेत्थम् -- "वलि मणिनाश्यदाहानुकूलशक्तिमान् मणिसमवधाने दाहाजनकत्वात् यन्नैवं तवं व्यतिरेके घटः" इति । किञ्च--"शतिर्न द्रव्यात्मिका गुणादिवृत्तित्वात् । अतएव-न गुणात्मिका कात्मिका वा, नवा सामान्याद्यन्यतमरूपा, उत्पत्तिमत्त्वे सति विनाशित्वात्पटवत्" इति । इत्थञ्च शक्लेरतिरिक्त पदार्थत्वसिद्धिः।
(मुक्का०) एवं सादृश्यमप्यतिरिकः पदार्थः । तद्धि न षट्सु भावे. प्वन्तर्भवति सामान्येऽपि सत्त्वात् । यथा गोत्वं नित्यं तथाश्वत्वमपीति सादृश्यप्रतीतेः नाप्यभावे सत्त्वेन प्रतीयमानत्वादिति चेन्न, मण्याद्यभावविशिष्टवह्नयादेर्दाहादिकं प्रति स्वातन्त्र्येण मण्यभावादेरेव वा हेतुत्वं कल्प्य ते।
* अथवा-"ननु प्राभाकरमते शक्तरतिरिक्तपदार्थत्वात् आलङ्कारिकमते सादृश्यरयातिरितापदार्थत्वाच्च पदार्थानां सप्तत्वकथनमसङ्गतमिति तटस्थः शङ्कते" इत्यवतार्यम् ।
+ मण्याद्यभावेनेत्यर्थः।