________________
पदार्थविभागः, शक्तिसादृश्ययोरतिरिक्तपदार्थत्वाशङ्का च ।
चिन्तामणौ सप्तपदार्थभिन्नतया शक्तिसादृश्यादीनामतिरिक्तपदार्थत्वमाशङ्कितम् ।
२३
( प्रभा० ) ननु - अन्यत्र न्यायग्रन्थेषु षड् भावपदार्थाः सप्तमस्तु अभाव इत्युक्रम्। अन भावस्य सप्तम इति विशेषणं कुतो नोक्रम् । अर्थात् पदार्थो द्विविधः भावोऽभावश्च । द्रव्यादयः षड् भावाः सप्तमस्तु प्रभाव इति रीत्या कुंतो न निरूपितमित्याशङ्कयाह"सप्तमस्य " इति । समवायैकार्थसमवान्यतरसम्बन्धेन सत्तावत्त्वं भावत्वम् भावत्वाभावोऽभावत्वमिति भावाभावयोर्विवेक: । प्राप्तम् = अर्थात् प्राप्तमित्यर्थः । तेन= प्राप्तत्वेन । “पृथगुन्यास” इति । भावत्वेनोपन्यासो न कृत इत्यर्थः । श्रयमाशयः । “द्रव्यादयः षट् भावाः=भावपदार्था: श्रभावत्वभिन्नधर्मविशिष्टत्वात् यन्नैवं तन्नैवम्” इत्यनुमानेन तेषां भावत्वं लब्धम् । ननु – गोतमतन्त्रे प्रमाणाद्याः षोडश पदार्था निरूपिता: तेऽप्यत्र निरूपणीया:, तथा च न सप्तैव पदार्थाः किन्त्वधिका श्रपीत्याशङ्कापाकुर्ववाह - " एते पदार्था" इति । द्रव्यादय इत्यर्थः । तथा च षोडशपदार्थानां सप्तपदार्थेष्वेवान्तर्भाव इति भाव: ।
*
उक्तार्थे भाष्यसम्मतिमाह-- प्रतिपादितञ्चेति । एवमेवेति - द्रव्यगुणकर्मसामान्यविशेषसमवायाभावा: सप्तैव पदार्थाः षोडशानामत्रैवान्तर्भावादिति प्रतिपादित - मित्यर्थ: । ( इदञ्च गड्डूरिकाप्रवाहेणैव सर्वैर्लिख्यते इत्याभाति ) ।
+ भाष्यस्यार्षत्वमामन्त्र्य स्वोक्तार्थे न्यायचिन्तामणिकृतां सम्मतिमाह - " श्रत एव " इति । " शक्तिसादृश्यादीनाम्” इति । यद्यधिका पदार्थाः कणादमुरभीष्टा अभविष्यन् तदा सप्तपदार्थभिन्नयोः शक्तिसादृश्ययोरतिरिक्तपदार्थशङ्खैव कृता नाभविष्यत् । यतः सप्तपदार्थभिन्नत्वेन तयोः शङ्कोत्थापिता तेन मन्यामहे मुनेर्भाष्यकारस्य च सप्तैव पदार्था इष्ट इति भाव: ।
( मुहा० ) ननु कथमेत एव पदार्थाः शक्तिसादृश्यादीनामप्यतिरिक्तपदार्थत्वात् । तथाहि - मरायादिसमवहितेन वह्निना दाहो न जन्यते । तत्र मण्यादिना वह्नौ दाहानुकूला शक्तिर्नाश्यते, उत्तेजकेन मण्याद्यप - सारणेन च जन्यते इति कल्प्यते ।
( प्रभा० ) यथा चोपमानचिन्तामणावतिरिक्तपदार्थत्वाशङ्का कृता, यथा वा तयोः
* षोडशपदार्थानां सप्तपदार्थेष्वेवान्तर्भावो दिनक निरूपितः । तत्तत्रैव कणहत्य निरीक्षणीयं ग्रन्थगौरवभयान्नेह प्रपचितम् ।
+ " भाष्यस्यार्षत्वमाशङ्कय" इति पाठे तु विषयसाधनस्य नियुक्तिकत्वेऽपि ऋषेर्नियोगपर्यनुयोगानईत्वेन श्रद्धामात्रेण स्वीकर्त्तव्यमिति न्यूनत्वमाशङ्कय तर्ककुशलानां नव्यनैयायिकानां चिन्तामणिकृतां सम्मतिमाह – “अत एवे" ति योजना ज्ञेया ।