________________
२२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्याः [प्रत्यक्षखण्डे (मुक्का०) पदार्थान्विभजते-- (कारि०) द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।
समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥२॥
(प्रभा०) द्रव्यमिति। शिष्यावधानाय प्रतिजानीते "द्रव्यं गुण" इति । प्रतिज्ञा च स्वकर्त्तव्यत्वेन निर्देशः । द्रव्यादिनिरूपणस्यैव स्वकर्त्तव्यत्वेन प्रतिज्ञानात् । "पदस्यार्थः पदार्थ" इति व्युत्पत्त्या अभिधेयत्वं पदशक्त्या प्रतिपाद्यत्वं पदार्थसासान्यलक्षणम् । “विभजत" इति । तद्धर्मावान्तरधर्मपुरस्कारेण धर्मिबोधानुकूलो व्यापारो 'वि'पूर्वकभजधातोरर्थः । अर्थात् सामान्यधर्मापेक्षया न्यूनवृत्तयो ये धर्माः, परस्परं व्यधिकरणाश्च यावन्तो धर्मा विद्यन्ते तावतां सर्वेषामेव बोधाय प्रयुज्यमानं वाक्यमेव विभजनपदस्यार्थः । यथा पदार्थानां विभागे पदार्थत्वं सामान्यधर्मः, द्रव्यत्वगुणत्वादयश्च तद्विशेषधर्मा: ते च परस्परं भिन्नभिन्नाधिकरणा: सप्तव च भवन्ति । तद्बोधकं यद् "द्रव्यं गुण" इति वाक्यं तदेव विभजनं ज्ञेयम् । द्रव्यं गुण इति जातावेकवचनम् । संयोगापेक्षया कर्म नातिरिक्तमिति भूषणमतं दूषयितुमाह-तथा कर्मेति । यथा गुण: पृथक् पदार्थ: तथा कर्मापीत्यर्थः । यद्वा “कर्म" इत्यत्रैकवचनेन “एकमेव चलनात्मकं कर्म उत्तेपणादिभेदस्तु शिष्यबुद्धिवैशद्याय” इति सूचितम् । सामान्यं वक्ष्यमाणलक्षणं "सत्ता" इत्याख्य: पदार्थः । अभावोऽधिकरणस्वरूप इति प्रभाकरमतं दूषयितुं पुन: "तथा" इति पदमुपात्तम् । पदार्था “निरूप्यन्त" इति शेष: । “सप्त" इति पदं सप्तव * पदार्था नाधिका न न्यूना वेति बोधनाय । “कीर्तिता" इति कणादप्रभृतिभिमुनिभिरिति शेष: । ततश्चातो नाधिका: पदार्थाः यद्यभविष्यन् तर्हि करणादाद्यैर्मुनिभिः कुतो नाकीर्त्तयिष्यन्त इति भावः ।
___ (मुक्ता०) अत्र सप्तमस्याऽभावत्वकथनादेव षराणां भावत्वं प्राप्तं तेन भावत्वेन पृथगुपन्यासो न कृतः । एते च पदार्था वैशेषिके प्रसिद्धा नैयायिकानामप्यविरुद्धाः। प्रतिपादितं चैवमेव भाष्ये। अत एवोपमान
विरोधात् सर्वथोपेक्षणीयम् । “कतजन्यत्वशरीराजन्यत्वयोः कार्यकारणभावस्य अदृष्टपूर्वत्वादिति" स्वग्रन्थविरोधाच्चेति दिक् ।
___ * अयमभिसन्धिः-यथा “ब्राह्मणमानय” इत्यादिवाक्यघटकैकवचनान्तब्राह्मणपदेन एकत्वविशिष्टब्राह्मणस्य आनयननिरूपितकर्मत्वेन उपस्थितावपि "द्वितीयं नानय" इत्यर्थाऽलाभः । "एक ब्राह्मणमानय” इत्यादौ (तु) सङ्ख्यावाचकैकादिपदानामितरनिषेधार्थकत्वात् 'द्वितीयं नानय" इत्यर्थलाभ: (स्फुटीमवति), तथा द्रव्येत्यादिद्वन्द्वसमभिव्याहृतबहुवचनेन सप्तत्वरूपबहुत्वसङ्ख्योपस्थितावपि अष्टत्वसङ्ख्यापर्याप्त्यधिकरणसमुदायस्य निषेधाऽलाभात् तदर्थ सप्तपदमप्यावश्यकमिति भाव इति नृसिंहप्रकाशिकादिषु द्रष्टव्यम् ।