SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मङ्गलवादः । २१ मयापि च पठ्यते :--- अनुकूलतर्काभावे नास्ति नास्तिक ! ते मते । क्षमताऽऽस्तिकहेतूनां भङ्गरङ्गतरङ्गिणी ॥१॥ कार्यकारणभावोऽपि स्वेष्टतर्काननेक्षणम् । कृत्वैव विश्रमं धत्ते वादिपक्षे न चान्यथा ॥२॥ इति ॥ एवमनुमानेनेश्वरसिद्धौ तदुच्चरितत्वेन वेदस्यापि प्रामाण्यं निश्चितमिति वेदप्रामाण्यसत्त्वे ईश्वरसिद्धिः, तसिद्धौ वेदप्रामाण्यासिद्धिरिति नान्योन्याश्रयोऽपि । तस्माद्वेदोपीश्वरे प्रमाणमित्याह- द्यावाभूमी जनयन्निति । "इत्यादय" इति आदिना “यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः" (मुं० १।१।६) “तदैवत बहु स्यां प्रजायेय" (छान्दोग्य० ६।२।३) इत्यादीनां परिग्रहः ।। ... त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः उद्देशो लक्षणं परीक्षा चेति भाष्यकारः । तत्र नाममात्रेण वस्तुसङ्कीर्तन मुद्देशः । यथा “द्रव्यं गुण" इति । असाधारणधर्मो लक्षणम् । यथा “गन्धवत्त्वं पृथिव्याः" इति । लक्षितस्य लक्षणं सम्भवति न चेति विचारः परीक्षा। यथा च तस्य तस्य लक्षणस्यावसरेऽतिव्याप्त्यादिदोषाः परिहृताः । ततश्च भाष्यादिनिर्दिष्टरीत्या पदार्थविचार: कृतोऽस्मिन्ग्रन्थे, एतस्य सन्मूलतया प्रामाण्यं (आदरार्हतां) स्पष्टयति इत्यधिकमन्यत्र बोधनीयम् ॥१॥ इति मङ्गलवादः । * विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैर्यावाभूमी जनयन्देव एकः ॥ यजु० अ० १७ । कं. १६ ॥ अत्र प्रथमेन सर्वज्ञत्वं चक्षुषा दृष्टरुपलक्षणात्, द्वितीयेन सर्ववक्तृत्वं मुखेन वागुपलक्षणात्, तृतीयेन सर्वसहकारित्वं बाहुना सहकारित्वोपलक्षणात्, चतुर्थेन ब्यापकत्वं पदा व्याप्तेरुपलक्षणात्, पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वं तौ हि लोकयात्रावहनाद्वाहू, षष्ठेन परमाणुप्रधानाधिष्ठेयत्वम्, ते हि गतिशीलत्वात् प्रतत्रव्यपदेशाः पतन्तीति, सन्धमति सजनयन् इति च व्यवहितोपसर्गसम्बन्धः तेन संयोजयति समुत्पादयन्नित्यर्थः । द्यावा इत्यूर्ध्वसप्तलोकोपलक्षणम् भूमीत्यधस्तात् , एक इत्यनादितेति न्यायाचार्याः। वेदाचार्या अपि परमेश्वरस्य सर्वप्राण्यात्मकत्वाद् यस्य यस्य प्राणिनो ये चक्षुरादयः ते तदुपाधिकस्य परमेश्वरस्यैवेति सर्वत्र चतुरादयः सम्पद्यन्त इति फलतोऽविरुद्धमेव व्याख्यान्ति । ईश्वरस्य निरवधिकन्याप्तौ दयोरप्याचार्ययोरभिप्रायपर्यवसानमित्याशयः । ___ यत्तु-कर्तृत्वात्साकारसिद्धिः खत एव जाता । घटस्य कर्ता खलु कुम्भकारः शरीरी। नच नाशरीरीत्यादिकमपि द्रष्टव्यम् इत्याह कश्चित् तन्न्यायाचार्याबनेकवैदिकपुरुषोक्ति
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy