________________
२०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे परमयमस्त्येको नियमः यदि कस्यचिद्धेतोः साध्याभावसाधनाय अपरो हेतुः प्रवृत्त: स्यात् , तदा पूर्वानुमाने दत्तो हेतु: “सत्प्रतिपक्षितो" भवन् स्वसाध्यसमर्थनाय नालम्भवति, तेमासौ सत्प्रतिपक्षो नाम हेत्वाभास इत्युच्यते । प्रकृते च “कार्यत्वात्" इत्यस्य हेतोः साध्यं यत् "कर्तजन्यत्वं" तस्याभावः ‘कजन्यत्वम्" तस्य साधक: "शरीराजन्यत्वात्" इत्यन्यो हेतुर्वर्तते, तस्मात् कथं कार्यत्वहेतुना कर्तृजन्यरूपस्य साध्यस्य सिद्धि: स्यात् ।
अत्र सिद्धान्ती इत्थमुत्तरयति-भो ! अनीश्वरवादिन् ! तवानुमाने व्यभिचारशङ्कायां क्रियमाणायां तस्या निवारकः कश्चनानुकूलस्तर्को न दृश्यते । तथाहि-"यदि शरीराजन्यत्वं हेतुरस्तु क्षित्यङ्कुरादिषु कजन्यत्वं साध्यं मा भवेत् को दोष:" इत्याकारिका व्यभिचारशङ्का उत्थाप्येत, तदा न चास्या उद्धाराय तवान्तिके कश्चित्तों येन तत्परिहारो भवेत् । एवञ्चानुकूलतर्काभावादेव तवानुमानं दुष्टम्, तस्य दुष्टतायां ममानुमाने उक्त: “कार्यत्वात्” इति हेतु: साध्यसाधनाय समर्थ एव नासमर्थः ।
अवधेहि तावत्-कार्यकारणभावभङ्गप्रसङ्गः प्रायस्तर्कस्य स्वरूपम् । तत्र "यदि करृजन्यत्वं न स्यात् तदा शरीराजन्यत्वमपि न स्याद्" इत्येव भवान् (नास्तिक:) बदिष्यति । परं नैतावता वाद्यनुमाने व्यभिचारशङ्का निवर्त्यति । नहि पूर्व क्वचित् कजन्यत्वशरीराजन्यत्वयोः कार्यकारणभाव: प्रसिद्धः येन "न स्याद् न स्याद्” इत्यभिधाय कार्यकारणयोर्भङ्गप्रसङ्ग आपायेत; तस्मात् "शरीराजन्यत्वाद्" इत्यप्रयोजको हेतुर्नास्तिकस्य ।
अपि च कजन्यत्वाजन्यत्वयोरेव आकाशादिषु व्याप्तिर्दृष्टा तेन अजन्यत्वस्य पुरोभागे "शरीर"रूपविशेषणदानमपि व्यर्थ सत् हेतोय॑र्थविशेषणता स्पष्टयतीति सर्वथा शङ्कितुरनुमानमसदेव बोध्यम् । अस्मिन्ननुमाने उपाधिलापनप्रकारः तदुद्धारप्रकारश्चात्र प्रदर्श्यमानो बालानामादौ महत्काठिन्यमावहेदिति कृत्वा तदुपाधिप्रसङ्गे प्रदर्शयिष्यते।
ननु--तवापि मते कथमनुकूलस्तर्क इत्याशङ्कापरिहाराय आह-- "मम ” इति । अर्थात् सिद्धान्तिनो मते “यदि कर्तृजन्यत्वं न स्यात् तर्हि कार्यत्वमेव न स्यात्" इत्याकारकः कार्यकारणभावस्य भङ्गप्रसङ्गरूपोऽनुकूलस्तर्कोऽस्त्येव । यतः घटपटादिषु कर्तृजन्यत्वकार्यत्वयोः परस्परं कार्यकारणभावो लोके प्रसिद्धः । घटः कुलालकर्तृजन्यः पटश्च कुविन्दकर्तृजन्य इति, तस्मान्नेश्वरसाधकमनुमानं सत्प्रतिपक्ष इति प्रघट्टस्याशयः । तदुक्रमभियुक्तः--
अनुकूलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भवः ॥ इति ॥