________________
मङ्गलवादः।
कारणसामान्येऽपि शक्तिः तेन निमित्तकारणरूपोऽर्थो न 8 विरुद्ध इति भावः।
नन्वीश्वरे नमस्काररूपं मङ्गलमयुक्तं तत्र (ईश्वरे) प्रमाणाभावाद् इत्यत आहएतेनेति । प्रमाणम् अनुमानाख्यं प्रमाणम् । तथाहीत्यादिना कार्यकारणयोर्व्याप्ति दृष्टान्तद्वारा अभिलापयति । “यत्कार्य तत्कर्तृजन्यम्" इति व्याप्तेः सामान्याकारः । सामान्यन्याप्तिरित्यर्थः । ईश्वरसाधकमनुमानन्तु- "क्षित्यङ्कुरादिकं कर्तृजन्य कार्यत्वात् घटवत्" इति । अत्र : क्षित्यादि पक्षः । कर्तजन्यं साध्यम् । कार्यत्वं हेतुः । घटो दृष्टान्तः । नहि किमपि जडं चेतनाधिष्ठानमन्तरा कार्य कत्तुं समर्थं दृष्टचरम् , नहि
मृत्पिण्डः कुलालाधिष्ठानं विना स्वयं घट घटयितुमीष्टे । तथा च परमाणवाद्युपादानं जडं येनाधिष्ठितं जगद्रूपं जायते स एवाधिष्ठाता क्षित्यादिकर्ता जगन्नियन्ता परमेश्वर इत्यनुमानं प्रमाणं जगत्कर्तुः परमेश्वरस्य साधकमिति परमार्थः।
ननु-अस्मदाद्या जीवा एव सम्भूय क्षित्यादिकारो भविष्यन्ति किमीश्वरागीकारेणेति शङ्कां निरस्यति । "नच" इति । असदादिजीवानामल्पज्ञत्वात् अल्पशक्तित्वाच्च नैव क्षित्यादिजनने सामर्थ्यम् , अस्ति च क्षित्यादिकार्य, तच्च घटवत् निमित्तकारणं विना नोत्पत्तुमर्हति, यश्च तदुत्पादक: स एवेश्वर इति भावः ।।
(मुक्ता०) नच शरीराजन्यत्वेन कत्रजन्यत्वसाधकेन सत्प्रतिपक्ष इति वाच्यम् , अप्रयोजकत्वात् । मम तु कर्तृत्वेन कार्यत्वेन कार्यकारणभाव एव अनुकूलस्तर्कः। “द्यावाभूमी जनयन्देव एकः" "विश्वस्य कर्ता भुवनस्य गोप्ता" इत्यादय भागमा अप्यनुसन्धेयाः ॥१॥
_ (प्रभा०) कार्यत्वहेतो: सत्प्रतिपक्षत्वमाशङ्कते-"नच" इति । क्षित्यकुरादिकं कर्तृजन्यमित्यनुमानं न युक्तं, यतोऽस्य हेतोः साध्याभावसाधकमनुमानान्तरं वर्त्तते, तस्मादयं सत्प्रतिपक्षो हेत्वाभास: । "क्षित्यादिकं कर्बजन्यं शरीराजन्य वात् आकाशवत्" इति पूर्वपक्षयितुराशयः ।
तदेतत् सिद्धान्ती खण्डयति-अप्रयोजकत्वात् व्यभिचारशङ्कोत्थानेऽनुकूलतर्काभावादित्यर्थ: । "क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत्" इतश्विरवादिनोऽनुमाने यत् “कर्तृजन्यत्वम्" साध्यं, तत्साधनाय "कार्यत्वाद्” इति हेतुरुपात्तः ।
* ईश्वरमुपादानकारणमनङ्गीकुर्वतां न सिद्धान्तविरोध इ.यर्थः ।
+ अत्र स्वरूपसम्बन्धरूपकार्यत्वं पक्षतावच्छेदकम् प्रागभावप्रतियोगित्वरूपं कार्यत्वं हेतुतावच्छेदकमिति नास्ति पक्षतावच्छेदकहेतुतावच्छेदकयोरैक्यम् । अधिकं रामरुद्यादावालोक्यम् ।
* यस्मिन् साध्यस्य संशयः असौ पक्षः । यत्तत्र सन्दिग्धं तदेव साध्यम् । साध्यसाधनाय दीयमानोपपत्तिरेव हेतु: । यत्र साध्यस्य निश्चय: असौ दृष्टान्तः । सर्वमिदमनुमानखण्डे लक्षणादिद्वारा स्फुटीभविष्यति । विस्तरेण ईश्वरसिद्धिस्तु "न्यायतत्त्वसमीक्षायां" सूपपादितेति विशेषस्तत एव कणेहत्य निरीक्षणीयः ।