________________
१८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
स्वनन्यविघ्नध्वंसावच्छेदकतासम्बन्धेन तच्छरीरनिष्ठत्वमेव । अत्रापि "स्व"शब्दमायं मङ्गलं, तज्जन्यो विघ्नध्वंसः, तदच्छेदकं शरीरम्, अवच्छेदकता च तच्छरीरे वर्त्तते, स्वशब्दग्राह्यमङ्गलजन्यविघ्नध्वंसस्य शरीरावच्छिनात्मनि सत्त्वात् । अस्मिन्पक्षे अवच्छेदकतासम्बन्धेन शरीरनिष्ठसमाप्तिम्प्रति स्व(मङ्गल)जन्यविघ्नध्वंसावच्छेकतासम्बन्धेन शरीरे विद्यमानस्य मङ्गलस्य कारणत्वम् । अत्र अवच्छेदकतासम्बन्धः कार्यतावच्छेदकसम्बन्धः । स्व जन्यविघ्नध्वंसोत्पत्त्यवच्छेदकतारूपसम्बन्धस्तु कारणतावच्छेदकसम्बन्धः ।
- किंवा–स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बर्धन समाप्तेम्रन्थकर्तृपुरुषात्मनिष्ठत्वम् । तत्रैव मङ्गलस्यापि आश्रयतासम्बन्धेन सत्त्वम् । अत्र "स्व"शब्दग्राह्या चरमवर्णध्वंसरूपा समाप्तिः, तस्याः प्रतियोगिभूतश्वरमवर्णः, तस्य निमित्तकारणं कृतिः, सा च तस्मिन्नात्मनि समवायसम्बन्धेन वर्तत एव, तस्मात् स्वप्रतियोगिचरमवर्णानुकूल कृतिमत्त्वसम्बन्धेन अात्मनि वर्तमानां समाप्तिम्प्रति आश्रयतासम्बन्धेन वर्तमानस्यमजलस्य हेतुत्वम् । ___ अत्र स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धः कार्यतावच्छेदकसम्बन्धः, आश्रयतासम्बन्धः कारणतावच्छेदकसम्बन्धोऽवगतव्यः । इत्थं प्रदर्शितसम्बन्धप्रकारेण जन्मान्तरीयमङ्गलस्य ऐहिकमङ्गलस्य वा सामानाधिकरण्ये सिद्धे विघ्नध्वंसद्वारा समाप्तिम्प्रति कारणत्वं निर्दुष्टमेव ।
ये तु नव्याः- "समाप्तिम्प्रति मङ्गलं न कारणम्" इति मन्यन्ते किन्तु विघ्नध्वंस एव समाप्तिहेतुरिति तन्मतम्, तन्मते स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन अात्मनि वर्तमानां समाप्तिम्प्रति तत्रैवात्मनि विशेषणतासम्बन्धेन विद्यमानस्य विघ्नध्वंसस्य कारणत्वं ज्ञेयम् । अत्र स्वप्रतियोगीत्यादि कार्यतावच्छेदकसम्बन्धः, विशेषणतासम्बन्धश्च कारणतावच्छेदकसम्बन्धो बोध्य इत्यलम् ।
___(मुक्ता०) संसारमहीरुहस्य बीजायेति । संसार एव महीरूहो वृक्षस्तस्य बीजाय निमित्तकारणायेत्यर्थः । एतेन ईश्वरे प्रमाणमपि दर्शितं भवति । तथाहि-यथा घटादिकार्य कर्तृजन्यं तथा क्षित्यङ्कुरादिकमपि । नच तत्कर्तृत्वमस्मदादीनां सम्भवतीत्यतस्तत्कर्तृत्वेनेश्वरसिद्धिः ।
(प्रभा०) बीजत्वं समवायिकारणत्वं तञ्चेश्वरे नैव सम्भवति इत्यतो व्याख्याति बीजाय-निमित्तकारणायेत्यर्थ इति। "हेतुर्नाकारण बीज"मिति कोशात् बीजशब्दस्य
* अत्र "उत्पत्तिपदरहितः पाठः साधु"रिति विश्वेश्वराश्रमदण्डिनः ।
+ विशेषेण जायतेऽनेन अस्माद् वेति बीजम् । “उपसर्गे च सज्ञायाम्" (३।२। ६६) इति सूत्रेण "जनी"धातोर्ड: । “अन्येषामपि"-(६ । ३ । १३७) इति सूत्रेण दीर्घः । “बीजन्तु रेतसि । स्यादाधाने च तत्त्वे च हेतावकुरकारणे" इति हैमः । औपनिषदसिद्धान्ते तु बीजाय= अभिन्ननिमित्तोपादानकारणाय इत्यर्थेऽपि नासङ्गतिः ।