________________
मङ्गलवादः ।
कार्यकारणभावः तदा देशान्तरस्थकुलालादेरपि एतद्देशे घटोत्पत्तिः स्यात्, तस्मात्समानाधिकरणवृत्तिपदार्थानामेव कार्यकारणभाव इत्यकामेनाप्यभ्युपेयम् । अयमभिसन्धिः-- चरमवर्णरूपा समाप्तिः ककारादिशब्दस्वरूपत्वात् स्वसमवायिकारणाकाशनिष्ठा, अथ च चरमवर्णध्वंसरूपा वा समाप्तिः स्वप्रतियोगिसमवायिकारणाकाशनिष्ठैव । गुर्वीश्वरादिस्मरणरूपं मङ्गलन्तु ज्ञानात्मकत्वाद् ग्रन्थकर्तृपुरुषात्मनिष्ठञ्चेति कथं मङ्गलसमाप्त्योय॑धिकरणत्वे कार्यकारणभावः, समानाधिकरणयोरेव 8 कार्यकारणभावदर्शनात् । कार्यकारणभावाभावाच्च समाप्तिम्प्रति मङ्गलस्य नैव कारणत्वमिति बोध्यम् ।
अत्रेदं परिहारमाचक्षते -स्वजनकविघ्नध्वंसोत्पत्यवच्छेदकतासम्बन्धेन सम,प्तेर्ग्रन्थकर्तपुरुषशरीरनिष्ठत्वात् अवच्छेदकतासम्बन्धेन च ज्ञानरूपमङ्गलस्यापि तत्रैव सत्त्वात् मङ्गलसमाप्त्योः कार्यकारणभावे बाधकाभाव इति ।
.. . उनसम्बन्धे "स्व"शब्दग्राह्या समाप्तिः, तजनको विघ्नध्वंसो हि शररािवच्छिन्नात्मन्येव वर्त्तते, तेन शरीरस्य समाप्तिजनकविघ्नध्वंसोत्पत्तेरवच्छेदकत्वम् (नियामकत्वम्) । अनया रीत्या "स्वजनकविघ्नध्वंसोत्पत्यवच्छेदकतासम्बन्धेन" ग्रन्थकर्तृपुरुषशरीरनिष्ठत्वम् ज्ञानात्मकमङ्गलस्यापि शरीरावच्छिन्नात्मनि सत्त्वादवच्छेदकतासम्बन्धेन शरीरनिष्ठत्वम् । शरीरस्य ज्ञानावच्छेदकत्वात्, ज्ञानस्य च तदवच्छेद्यत्वम् । वक्ष्यति च-"ज्ञानादिकं यदात्मनि विभी शरीराद्यवच्छेदेनोत्पद्यते” इत्यग्रे साधर्म्यवैधयंप्रकरणे।
तथा च-स्वजनकविघ्नध्वंसोत्पत्त्यवच्छेदकतासम्बन्धेन तच्छरीरनिष्ठसमाप्तिम्प्रति अवच्छेदकतासम्बधेन तच्छरीरनिष्ठमङ्गलस्यापि सामानाधिकरण्ये कार्यकारणभावः सर्वथा निर्दुष्टः ।
स्वजनकविघ्नध्वंसोत्पत्त्यवच्छेदकतासम्बन्धस्तु–समाप्तिनिष्ठकार्यताया अवच्छेदकसम्बन्धः । अवच्छेदकतासम्बन्धस्तु कारणताया अवच्छेदकसम्बन्धः।
अयं भावः-कारणाधिकरणे यत्सम्बन्धेन कार्य भवति स सम्बन्धः “कार्यतावच्छेदकसम्बन्ध" इत्युच्यते । कार्याधिकरणे यत्सम्बन्धेन कारणं भवति स सम्बन्धः "कारणतावच्छेदकसम्बन्धः”। यथा द्रव्यीयचातुषप्रत्यक्षे उद्भूतरूपं कारणम्, तत्र विषयतासम्बन्धेन चाक्षुषप्रत्यक्षं घटादिनिष्ठम्, उद्भूतरूपमपि समवायसम्बन्धेन घट दिनिष्ठमेव, तस्माद्विषयतासम्बन्धः कार्यता-(चाक्षुषप्रत्यक्षता)-याः अवच्छेदकसम्बन्धः । समवायसम्बन्धश्च कारणता-(उद्भूतरूपता)-याः अवच्छेदकसम्बन्धः । एषैव दिक्प्रायः सर्वत्र सम्बन्धेष्वनुसरणीया।
___ अथवा–अवच्छेदकतासम्बन्धन समाप्तिर्ग्रन्थकर्तपुरुषशरीरनिष्ठा । चरमवर्णरूपायाः चरमवर्णध्वंसरूपायाः वा समाप्तेः शरीरावच्छिन्नाकाशे सत्त्वात् मङ्गलस्यापि
* अन्यथा व्यधिकरणमत्पिण्डादेरपि घटादेरुत्पत्तिः स्यात् । + तथा चास्स्येव विघ्नध्वंससमाप्स्योः सामानाधिकरण्यमिति भावः।