________________
१६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
विघ्नध्वंसः, मङ्गलेन चान्यो विघ्नध्वंस इति नैव व्यभिचार इत्यर्थः । * कण्ठताल्वाद्यभिघातरूपस्य पाठस्य ज्ञानविशेषरूपान्मङ्गलाद् भेदः । एवमुभयोः कार्यभूतयोः विघ्नध्वंसयोरपि परस्परं विशेष एवेत्यभिप्रायः । “सर्वे विघ्नाः शमं यान्ति गणेशस्तवपाठत" इति वाक्यन्तु गणपतिमाहात्म्यपरमित्यपि केचित् । अधिकमन्यतो ज्ञेयम् । विनायकस्तवपाठादिरित्यत्र आदिना प्रायश्चित्तस्यापि संग्रहः । ततश्चकश्चिद्विघ्नध्वंसो मङ्गलजन्यः, कश्चित् विनायकस्तवपाठजन्यः, कश्चित् प्रायश्चित्तानुष्ठानजन्य इति निष्कर्षः । . (मुक्का०) क्वचिच्च विघ्नात्यन्ताभाव एव समाप्तिसाधनं प्रतिबन्धकसंसर्गाभावस्यैव । कार्यजनकत्वात् । इत्थश्च नास्तिकादीनां ग्रन्थेषु जन्मान्तरीयमङ्गलजन्यदुरितध्वंसः, स्वतःसिद्धविघ्नात्यन्ताभावोवास्तीति न व्यभिचार इत्याहुः।
(प्रभा०) ननु-यदि विघ्नध्वंस एव मङ्गलफलं तदा समाप्तिकामो मङ्गलं नाचरेत्, यस्य यत्फलं स्यात् तत्कामस्यैव तत्र प्रवृत्तेः इतीमां शङ्का खण्डयति--क्वचिदिति । विघ्नात्यन्ताभावः विघ्नानां स्वतसिद्ध एवात्यन्ताभावः त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकः । समाप्तिसाधनम् समाप्तिकारणम् । । प्रतिबन्धकेति-कार्यमात्रम्प्रतिप्रतिबन्धकसंसर्गाभावस्य कारणत्वमित्यर्थः । तथाच विघ्नध्वंसः विघ्नात्यन्ताभावश्चोभावपि संसर्गाभावौ । संसर्गाभावत्वेन च कार्यम्प्रत्यनयोरनुगमः । एवञ्च स्वतःसिद्धविनात्यन्ताभावस्थलेऽपि नैव व्यभिचारः । तत्र तादृशसंसर्गाभावस्यैव कारण- . भूतस्य समाप्तिरूपकार्यजनकत्वात् । ___ व्यतिरेकव्यभिचारमुद्धर्तुमाह--"इत्थञ्च" इति । नास्तिकादिग्रन्थेषु पूर्वजन्मनि कृतेन मंगलेन पापनाशः तेन समाप्तिः, अथवा स्वतःसिद्ध एव विघ्नानामत्यन्ताभावः तेन समाप्तिद्रष्टव्येति नैव व्यतिरेकव्यभिचारः । “पाहु"रिति क्रियापदस्य "नव्या" इति कर्तृपदेनान्वयः । . अत्रेत्थमाशङ्कन्ते-जन्मान्तरीयं मङ्गलमैहिकं वा मङ्गलं विघ्नध्वंसद्वारा समाप्ति
प्रति तदा कारण स्यात् यदा मंगलसमाप्रयोः सामानाधिकरण्यं भवेत्, समानाधिकरणवृत्तिपदार्थानामेव कार्यकारणभावनियमात् । यदि व्यधिकरणवृत्तिपदार्थानामपि
* विजातयिविघ्नध्वंसनिष्ठा या कार्यता, तादृशकायनानिरूपिता कारणता भिन्ना, तथैव विजातीयविघ्नध्वंसनिष्ठकार्यतानिरूपितकारणता विनायकरतवपाठादिनिष्ठाप्यन्यैव वर्तते । इत्याशयपुष्टिकर एवाग्रिमोऽपि गन्थः "कण्ठताल्वादि"तिविज्ञेयः। .
+"कार्यमात्रजनकत्वात्" इति प्राचनिप्रभासम्मतः पाठः ।। * संसर्गाभावस्य लक्षणमग्रे मूले तद्व्याख्याने च द्रष्टव्यम् । $ कारणाभावे कार्याभावरूपो यो व्यतिरेकः तस्य व्यभिचारमित्यर्थः ।