________________
मङ्गलवादः।
बोधकत्वेन प्रमाण्याभावः तस्यापत्तिः प्राप्तिः स्यात् । एतन्निरस्यति-"सति विन" इति । विघ्ने सत्येव वेदेन विघ्ननाशो बोध्यते नत्वसतीत्यर्थः ।
अयं भावः-स्वतःसिद्धविघ्नविरहस्थले विनात्मकप्रतियोगिरूपकारणाभावेन विघ्नध्वंसरूपकार्यस्यानुत्पत्तावपि नैव मङ्गलविघ्नध्वंसयोः कार्यकारणभावबाधः, नापि च कारणताबोधकश्रतिवाक्यस्याप्रामाण्यापत्तिः । नहि बाध्याभावस्थले बाधकस्य बाधकत्वाभावः प्रमाणसम्प्रतिपन्नः।
यथा-केवलाद् दण्डाद् घटानुत्पत्तावपि “दण्डो घटकारणम्" इति वाक्यस्य नाप्रामाण्यम्, घटाव्यवहितपूर्वस्मिन् क्षणे विद्यमानेऽपि दण्डे इतरकारणाभावे घटानुत्पत्तिदर्शनात् । किन्तु दण्डभिन्नसकलमृत्तिकादिघटकारणसत्त्व एव दण्डो घटस्य कारणमिति तस्य वाक्यस्य तात्पर्यम् । एवमेव विघ्ने सत्येव मङ्गलस्य विघ्नध्वंसम्प्रति कारणत्वम् । विघ्नाभावस्थले तु सदपि मङ्गलं नाऽकारणभावं भजते किन्तु तत् कारणमेवेति प्रघट्टकस्याशयो बोध्यः।
मङ्गलविधायकश्रुतिवाक्यानुमानप्रकारश्चेत्थम्--"मङ्गलं वेदबोधितकर्त्तव्यताकम् अलौकिकाविगीतशिष्टाचारविषयत्वात्, दर्शादिश्राद्धवत् । अत एव-नाशम्प्रति प्रतियोगिन: कारणत्वादेव । पापभ्रमेण-पापाभावेऽपि "अहं पापी अस्मि" इत्याकारया बुद्ध्या कृतस्य के प्रायश्चित्तस्य-मन्वादिधर्मशास्त्रप्रतिपादितकर्मविशेषस्य । निष्फलत्वेऽपि पापनाशकत्वाभावेऽपि । न तद्बोधकवेदाप्रामाण्यापत्तिः प्रायश्चित्तस्य पापनाशकत्वबोधको यो वेदः तस्याप्रमाण्यापत्तिनेत्यर्थः । यथा संशयनिश्चयसाधारणं पापज्ञानं प्रायश्चित्तप्रयोजक तथैव विघ्नज्ञानमपि मङ्गलानुष्ठानप्रयोजकमिति गूढोऽभिप्रायः।
(मुक्का०) मङ्गलं तु विघ्नध्वंसविशेषे कारणं विघ्नध्वसविशेषे च विनायकस्तवपाठादिः।
(प्रभा०) ननु-यदि मङ्गलं विघ्नध्वंसम्प्रति कारणं स्यात् अर्थात् विघ्नध्वंसो मङ्गलैकसाध्यः स्यात्, तदा विनायकस्तवपाठेन विना न नश्येयुः नहि विनायकस्तवपाठो मङ्गलं, ततश्च पुनरपि व्यभिचार एवेत्यस्याः शङ्कायाः परिहारं मन्वान श्राह-"मङ्गलं तु" इति । विघ्नध्वंसविशेष-विजातीयविघ्नध्वंसे । कारणं हेतुः । विघ्नध्वंसविशेषे च विनायकस्तवपाठादिः । अत्र कारणमित्यनुषज्यते । विनायकस्तवपाठेन अन्यो
*प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्रयसंयोगात् प्रायश्चित्तं तदुच्यते ।। प्रायशश्च समं चित्तं चारयित्वा प्रदीयते ।
पर्षदा कार्यते यत्तु प्रायश्चित्तमिति स्मृतम् ॥ इति पराशरमाधवधृतमनिरोवचनम् । तच्च यथापातकं नानाप्रकारं मानवादिधर्मः । मन्थेषु बहु निरूपितम् ।