________________
सविवृतिप्रभोपेतया न्यायसिद्धान्तमुक्तावल्याः
* बुद्धिस्तात्कालिकी ज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनी प्रतिभां विदुः ॥ इति ॥
( मुक्का० ) नचैवं स्वतः सिद्धविघ्नविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वाच्यम् । इष्टापत्तेः, विघ्नशङ्कया तदाचरणात् । तथैव शिष्टाचारात् । नच तस्य निष्फलत्वे तद्बोधकवेदाप्रामाण्यापत्तिरिति वाच्यम् । सति विघ्ने तन्नाशस्यैव वेदवोधितत्वात् । अत एव पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न तद्बोधकवेदाप्रामाण्यम् ।
( प्रभा० ) प्रकारान्तरेण मङ्गलस्य नैष्फल्यं शङ्कते - "नचैवम्" इति । एवं = मङ्गलस्य विघ्नध्वंसप्रति जनकत्वे सत्यपीत्यर्थः । स्वतः सिद्धविघ्नविरहवता - स्वाभा विकविघ्नात्यन्ताभाववता । समाधत्ते - इष्टापत्तेरिति । भवतु विघ्नात्यन्ताभाववता पुरुषेण कृतस्य मङ्गलस्य नैष्फल्यं, नैवं दोषं पश्याम इति भावः ।
ननु - कथं निष्फले कर्मणि विघ्नात्यन्ताभाववतः शिष्टस्य प्रवृत्तिः स्याद् ? अत श्राह - " विघ्नशङ्कया" इति । तदाचरणात् मङ्गलाचरणात् । संशयनिश्चयसाधारणविघ्नज्ञानमेव प्रवर्त्तकमिति भावः । विघ्नशङ्कया मङ्गलाचरणमेवासिद्धम् इत्याह"तथैव शिष्टाचारात्" इति । विघ्नप्रकारकज्ञानमात्रेणैवेत्यर्थः । विषयतासम्बन्धेन मङ्गले शिष्टानां प्रवृत्तिर्विघ्नशङ्कयैवेत्यर्थः । शिष्टाचारादित्यस्यायमाशयः -- शिष्टानामास्तिकानाम्, श्राचारात् प्रवृत्तेः ः । तथा च- - "कूष्माण्डैर्जुहुयात् योऽपूत इव मन्येत ” इति श्रुत्या अपूतत्वशङ्कायाः कूष्माण्डहोमरूपप्रायश्चित्तकारण प्रयोजकत्वप्रतिपादनेन पापशङ्कया तम्निवर्त्तककूष्माण्डहोमादौ यथा श्रास्तिकानां प्रवृत्तिः तथैव विघ्नशङ्कया तन्निवर्त्तके मङ्गलेऽपि शिष्टानां प्रवृत्तिरावश्यकीति भावः ।
स्वतो विघ्नाभावस्थले कृतस्य मङ्गलस्य निष्फलत्वपक्षे वेदस्याप्रामाण्यमित्यात्रिपति -- "नच " इति । तस्य निर्विघ्नपुरुषाऽनुष्टितमङ्गलस्य । तद्बोधकेति । तस्य मङ्गलविघ्नध्वंसयोः कार्यकारणभावस्य बोधको यो वेदः = "समाप्तिकामो विघ्नध्वंसकामो वा मङ्गलमाचरेत्” इत्याकारा ( कल्प्यमाना ) + श्रुतिः, तस्य यद् श्रप्रामाण्यं बाधितार्थबुद्धिप्रतिभादीनां कोषादितः प्रायः पर्यायवाचित्वे पुनरुक्तिः प्रादुःष्यादिति शङ्कां भरतवाक्येनापनयति — “बुद्धिरिति ।
+ केचित्तु — "स्वस्ति नः इन्द्रो वृद्धश्रवाः, शन्नो मित्रावरुणा " इत्याद्या मन्त्राः प्रत्यक्षभूताः सकलकर्मादावुच्चारणेन विघ्नध्वंसफलाः कर्मसमाप्तिफलाः वा सन्तीति पुनस्तथाविधश्रुत्यनुमानेन प्राचामवचां वा किम्फलमिति विवेकिनः सन्तु साक्षिणः इत्याहुः । वयन्तु - आशीर्वादाद्यन्यतमत्वात्मकस्य मङ्गलस्याचरणविधानदक्षा श्रुतिः प्रत्यक्षमनुपलम्भात्कल्प्यैव मन्त्राणां प्रयोगसमवेतार्थाभिधायकत्वेऽपि विधायकत्वाभावात् । इद मङ्गलं कर्मविशेष इति सम्प्रदायविदां सरणिराभाति इति साधु पश्यामः ।
१४
[ प्रत्यक्षखण्डे