________________
.
मङ्गलवादः।
१३
अयं भावः-यत्र आस्तिकग्रन्थादौ मङ्गले कृतेऽपि समाप्तिर्न जाता तत्र मङ्गलकरणापेक्षया बलीयान् विघ्नोनुऽमातव्यः । यद्वा यावत्सङ्ख्यं मङ्गलं कृतं ततः प्रचुराः= अधिकसङ्ख्यावन्तो विघ्नाः सन्ति तेन न समाप्तिरिति कल्पनीयम् । एवञ्च विघ्नसमसङ्ख्याकं ततोऽधिकं वा मङ्गलं विघ्नविनाशकं न न्यूनमिति सिद्धं भवति ।
(मुक्ता०) विघ्नध्वंसस्तु मङ्गलस्य द्वारभित्याहुः प्राश्चः ॥ * - (प्रभा०) ननु-“कारणसत्त्वे कार्यस्यावश्यम्भाव" इति नियमः । कादम्बर्यादिग्रन्थे विघ्नध्वंसो न स्यात्, परं मङ्गलरूपकारणदर्शनात् समाप्तिरवश्यं भवेदितीमां शङ्का परिहरनाह-"विघ्नध्वंसस्तु” इति । द्वारं व्यापारः । “द्वारं प्रधानफलम्" इति किंव्याख्यानमिति सन्तो जानन्तु । कारणसत्त्वेऽपि यदि तस्य व्यापारो न स्यात् , नैव कार्य जायते, नहि कुठारस्य सत्तामात्रेण छिदारूपं फलं दृष्टचरम् । अपि तु कुठारस्य काष्ठेन सह संयोगविशेषरूपे व्यापारे सत्येव छिदा भवति । एवमेव कादम्बर्यादौ विघ्नानां बाहुल्येन मङ्गले कृतेऽपि नैव विघ्नध्वंसो जातः, तत्कत्थं विद्यमाममपि मङ्गलं विघ्नध्वंसा
मकव्यापाराभाववत् सत्समाप्तिरूपं फलं जनयेत् । यदा मङ्गलेन विघ्नध्वंसः क्रियते तदैव समाप्तिफलं जनयति नान्यदेति भावः । इदञ्च प्राचीनानां नैयायिकानां मतमित्याह-- "इत्याहुः" इति ।
(मुक्ता०) नव्यास्तु-मङ्गलस्य विनध्वंस एव फलं समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापात् ।
(प्रभा०) सम्प्रति न्यायचिन्तामणिकृतां गङ्गशोपाध्यायानां मतमाह"नव्यास्तु"-इति । अस्य "इत्याहु" रित्यग्रिमेणाभिसम्बन्धः । “विघ्नध्वंस एव फलम्” इति । एवकारेण समाप्तमङ्गलफलत्वव्यवच्छेदः । फलम् प्रवृत्युद्देश्यम् । विघ्नध्वंसादन्यन्नास्येव मङ्गलफलमिति भावः। - ननु-समाप्तिस्तर्हि केन हेतुना जायेत इत्याह -"समाप्तिस्तु" इति । बुद्धिप्रतिभादिकारणकलापात्-तत्र बुद्धिः-ज्ञानम्। प्रतिभा प्राक्कनसंस्कारविशेषः स्फूर्त्याख्यः। श्रादिपदेन विघ्नसंसर्गाभावग्रहः । बुद्धिप्रतिभाविघ्नसंसर्गाभावरूपकारणसमुदाय एव समाप्तिहेतुर्न मङ्गलमित्यर्थः। एवञ्च–समाप्तिनिष्ठा या कार्यता, तादृशकार्यता निरूपिता या कारणता सा बुद्धिप्रतिभादिकलापनिष्ठैव नतु मङ्गलनिष्ठेत्याशयः ।।
* "एवं रीत्या मङ्गलस्य समाप्तिसाधनत्वे अनुमिते श्रुतिरप्यनुमातुं शक्या--तथाहि मङ्गलं स्वनिष्ठसमाप्तिसाधनत्वबोधकश्रुतिगम्यम् समाप्तिकामनया शिष्टरनुष्ठीयमानत्वात् । यत् यत्कामनया शिष्टैरनुमीयते तत्वनिष्ठतत्कारणत्वबोधकश्रुतिगम्यं भवति, यथा दर्शादिरित्यनुमानं तत्र प्रमाणम् । इयांस्तु विशेषः-प्रत्यक्षश्रुतिरपूर्वार्थे, अनुमानिकी तु निणीतार्थे प्रमाणम्' इति प्राचीनो नृसिंहः ।