________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे भिन्नस्वर्गादिफलवत् सफलच, न तत् समाप्तिरूपफलवत् । मङ्गलन्तु न तथा । इदन्तु समाप्तिभिन्नफलवत् सत् न सफलम् । अपितु समाप्तिभिन्नाफलकत्वे सति सफलम्, अतः समाप्तिफलकमेवेति निर्गलितोऽर्थः । . अपि च नैव मङ्गलस्य स्वर्गादि अदृष्ट फलं मन्तव्यम् । तत्रैव अदृष्टं फलं कल्प्यते, यत्र दृष्टं फलं नोपस्थितं भवति । अत्र तु मङ्गलस्य दृष्टमेव फलं, ग्रन्थसमाप्तिरूपं ग्रन्थसमाप्तिप्रतिबन्धकानां विघ्नानां ध्वंसरूपं वेति निष्कल्मषः पन्थाः । . - (मुक्ता०) इत्थं च यत्र मङ्गल न दृश्यते तत्रापि जन्मान्तरीय तत्कल्प्यते, यत्र च सत्यपि मङ्गल समाप्तिन दृश्यते तत्र बलवत्तरो विघ्नो विनप्राचुर्य वा बोध्यम्, प्रचुरस्यास्यैव बलवत्तरविघ्ननिराकरणकारणत्वम्। .... (प्रभा०) सम्प्रति पूर्वप्रदर्शितव्यतिरेकव्यभिचारस्योद्धरणप्रकारमाह - "इत्थञ्च" इति। मङ्गलस्य समाप्तिफलकत्वे सिद्ध चेत्यर्थः। यत्र-नास्तिकग्रन्थादौ । जन्मान्तरीयंपूर्वजन्मभवम् । तत् मङ्गलम् । कल्प्यते-अनुमीयते, समाप्तिरूपण 8 कार्येणेति शेषः ।
अनुमानप्रकारश्चायम्-“अयं नास्तिकः [पूर्वजन्मनि] कृतमङ्गलकः ग्रन्थस्य निर्विघ्नपरिसमाप्तिदर्शनात् प्रास्तिकवत्" । यत्र २ निर्विघ्ना समाप्तिः तत्र २ मङ्गलस्य सत्त्वमिति व्याप्तिः। यथा आस्तिकग्रन्थे। नहि कारणेन विना कार्य भवतीति भावः । एवञ्च नैव व्यतिरेकव्यभिचारः । (कारणाभावेपि कार्यसत्त्वरूपः)।
, स्यादेतत्, मा भूद् व्यतिरेकव्यभिचारः । कारणसत्वेऽपि कार्यस्याभावरूपोऽन्वयव्यभिचारस्तु भविष्यति इत्याशङ्कय अन्वयव्यभिचारं निराकरोति-"यत्र च" इति। यत्र-कादम्बर्यादिग्रन्थेषु । सत्यपि-कृतेऽपि समाप्तिर्न दृश्यते तत्र बलत्तरः-अतिशयेन बलवानिति बलवत्तरः बलीयान् यो विघ्नः अन्तरायः, विघ्नप्राचुर्यम्-विघ्नानां बाहुल्य वा बोध्यम् । वाशब्दः पक्षान्तरद्योतकः।
प्रचुरस्येति-प्रचुरस्य-अभूतस्य अस्यैव-मङ्गलस्यैव । बलवत्तरति-बलवरविघ्नस्य निराकरणे-दूरीकरणे, कारणत्वं हेतुभावः। बलवत्तरविन्नध्वंसनिष्ठा या कार्यता तादृशकार्यतानिरूपिता कारणता बलवत्तरमङ्गलनिष्ठेत्येवंरूपेण मङ्गलविघ्नध्वंसयोः कार्यकारणभावो ज्ञेयः।
* कार्येण कारणानुमानं न्यायभाष्यकारोऽप्याह--"पूर्वोदकाविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्ट्वा सोतसोऽनुमीयते भूता वृष्टिरिति" इति । ( न्या. भा० १।१ । ५)
+ वक्रन्यायनयप्रकारस्तु-अयं नास्तिकः आश्रयतासम्बन्धेन मङ्गलवान् स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन समाप्तिमत्त्वात् आस्तिकवत् भारतादिकर्तवत् । अत्र प्रथम "स्व''पदेन मङ्गलस्य द्वितीय"स्व"पदेन समाप्तेश्च ग्रहणम् ।
अयं नास्तिकग्रन्थः स्वाश्रयपुरुषप्रयत्नप्रारिप्सतत्वसम्बन्धेन मङ्गलवान् स्वप्रतियोगिचर. मवर्णघटितत्वसम्बधेन समाप्तिमत्त्वात् आस्तिकग्रन्थवत् ।