________________
मङ्गलवादः
अविगीतेति-विरुद्धो गीतो विगीतः । अथवा शास्त्रात् विरुद्धं गीतं कथनं यस्थ स विर्गातो निन्दितः । न विगीतोऽविगीतः । *शिष्टानाम्-फलसातांशे भ्रान्तिरहितानाम् [ महापुरुषाणाम् ] आचारः कृतिरिति शिष्टाचारः। अविगीतश्चासौ शिष्टाचार इति अविगीताशिष्टाचार इति कर्मधारयः, तस्य विषयो निरूप्योऽनुष्ठेय इति यावत्, तस्य भावस्तत्त्व तेन हेतुनेत्यर्थः । सफलत्वे-सामान्यतः फलवत्त्वे । सिद्ध-अनुमिते । तत्र-तस्मिन्मङ्गले । केषुचिद् "च" पाठः । वयन्तु चस्य फलं न विद्मः । फलजिज्ञासायाम् विशेषतः फलस्य ज्ञातुमिच्छायाम् । दृष्टफलकत्व दृष्टमेव विघ्नध्वंसः विघ्नध्वंसपूर्विका समाप्तिर्वा फल यस्य तत् दृष्टफलकं तस्य भावस्तत्त्वं तस्मिन् सम्भवति-सति । अदृष्टेति-अदृष्टस्वर्गादिफलकल्पना न युक्रेति भावः । उपस्थितत्वादिति-"प्रारब्धं मे कर्म निर्विघ्नं समाप्यताम्" इति या ग्रन्थादौ प्रवृतस्य पुरुषस्य कामना, तद्विषयत्वन यदनुमानं तस्मिन् प्रवतमानस्य प्रतिपत्तः प्रमातुः] समाप्तिरेव फलमुपस्थितं [अनुमितं] भवति तस्मादित्यर्थः । कल्प्यते अनुमीयते ।
- अयमस्य सिद्धान्तिग्रन्थस्याशयः-वेदविधिमाश्रित्य सदाचारपरिपालकानां तस्य तस्य साध्यस्य साधनस्वरूपे भ्रान्तिरहितानां पुरुषाणां काचिदपि प्रवृत्तिर्न निष्फला भवति । ते हि यथा अन्येषां कर्मणामादी भगवन्नामस्मरणं गणपत्यादिपूजनं वा कुर्वते तथैव ग्रन्थादौ मङ्गलमप्यातन्वते । तेषां तथाविधमङ्गलाचरणप्रवृत्तितो वयं प्रथम मङ्गलस्य साफल्यमनुमास्यामहे, ततः फलविशेषविचारवेलायां । समाप्ति ग्रन्थसमाप्तिप्रतिबन्धकानां विघ्नानां ध्वंसं वा फलं साधयिष्यामो येन मङ्गलाचरणस्य नैष्फल्यं नैव सेत्स्यति । तेनाऽस्तिकयुक्क्रीनामग्रे नास्तिकः किं करिष्यति। अत्र नास्तिकतर्कनिरसनप्रकारश्चायम् – “मङ्गलं सफलम् अविगीतशिष्टाचारविषयत्वात् दर्शादिश्राद्धवत् : यथा दर्शादिश्राद्धकर्म अविगीतशिष्टाचारविषयत्वेन सफलं तथा मङ्गलाख्यमपि कर्म सफलम्। "यत्र यत्र अविगीतशिष्टारविषयत्वं तत्र तत्र सफलत्वम्" इति व्याप्तिः । अनेनानुमानेन मङ्गलस्य सफलता सिद्धा भवति । एवं पूर्वपक्षीयनिष्फलतासाधकमनुमानं स्वविरोध्यनुमाने सति नैवोत्थातुमर्हति । यच्च पूर्वपक्षीयानुमानेन समाप्त्यादिफलविशेषाभावः साधितः तस्येदमुत्तरम्-"मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वात्" यन्न समाप्तिफलवत्तत्समाप्तिभिन्नफलवच्च तत्सफलं दृष्टम् । यथा दर्शादि कर्म समाप्ति
* शिष्टत्त्वञ्च भक्ति श्रद्धादिभिर्वेदानुमतकमकर्तृत्वम् । आस्तिकाभासे व्यभिचारवारणाय भक्तीत्यादि । चैत्यवन्दनप्रवृत्तबौद्ध व्यभिचारवारणाय वेदानुमतेति । भक्तिश्च आराध्यत्वेन ज्ञानम् । श्रद्धा च फलावश्यम्भाव निश्चयः । शिष्टस्वरूपप्रपञ्चस्तु व्याकरणमहाभाष्यादौ द्रष्टव्यः ।
+ सिद्धान्तपक्षे अनुमानप्रकारमेव विशदयितुमुत्तरग्रन्थभारमते 'अयमस्य"- इत्यादि । * समाप्तिरूपम् । ध्वंसरूपम् ।