________________
१० सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे ऽनुमानान्तरेण कर्त्तव्यः । तथाहि-“मङ्गलं निष्फलं फलविशेषशून्यत्वात् यौवं तन्नैवम्" इति। अत्र फलविशेषशून्यत्वेन हेतुना पूर्वानुमाने हेतुभूतस्य निष्फलत्वस्य सिद्धिनिष्प्रत्यूहा। तस्मान "निष्फलत्वं" हेतुः स्वरूपासिद्धः । एवञ्चानेन पूर्वपक्षग्रन्थेन मङ्गलस्य न्यतिरेकव्यभिचारो दर्शितः। । व्यतिरेकव्याभिचारस्य लक्षणन्तु-का-व्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकवत्त्वम् । यथा-कार्य ग्रन्थसमाप्तिः, तस्या अव्यवहिते पूर्वस्मिन् क्षणे, तस्या एव अधिकरणभूते च नास्तिकग्रन्थे विद्यमानो योऽभावः मङ्गलात्यन्ताभावः, तस्य प्रतियोगि मङ्गलम्, तनिष्ठा प्रतियोगिता, तस्या अदवच्छेदकं मङ्गलत्वम्, तद्वत्ता मङ्गले, एतदेव तत्र व्यतिरेकन्यभिचारता ज्ञेया।
एवञ्च पूर्वपक्षीयानुमानमित्थं भवति-"मङ्गलं विघ्नध्वंसं प्रति समाप्ति प्रति वा कारणत्वाभाववत् कार्याधिकरणवृत्यत्यन्ताभावप्रतियोगित्वात् घटम्प्रति वेमवत्"। यथा घटरूपस्य कार्यस्याधिकरणे चक्रादौ वर्त्तमातो यो वेमात्यन्ताघावः, तस्य प्रतियोगित्वं वेमनि, तस्य घटोत्पत्ति प्रति न कारणत्वम्, तथैव समाप्तिरूपफलस्याधिकरणभूतेषु नास्तिकादिग्रन्थेषु विद्यमानो यो मङ्गलाभावः तस्य प्रतियोगि मङ्गलं नैव ग्रन्थसमाप्तिकारणम्, न वा विघ्नध्वंसकारणम् [ यस्याभावः स तस्य प्रतियोगीति शास्त्रसङ्केतः ] ततश्च विनापि मङ्गलं नास्तिकादिग्रन्थे समाप्तिरूपफलसत्त्वे कथं तस्य कारणतेति पूर्वपक्षयितुराशयः।
निर्विघ्नपरिसमाप्तिदर्शनात् विघ्नध्वंसपूर्वकसमाप्तिदर्शनादित्यर्थः । तदेतत् सिद्धान्ती. खण्डयति "चेन्न" इत्यादिग्रन्थेन । पूर्वपक्षोत्थापनमनुमानन कृतम् । अथवा--प्रमाणद्वयवादिनां बौद्धादीनां वा मङ्गलीयपूर्वपक्षसाम्यप्रदर्शनमिति ध्येयम् । परमिदमयुक्तम्-अनेकेषु बौद्धग्रन्थष्वपि तदाचार्मङ्गलस्य कृतत्वात् । तथाहि-बौद्धदर्शने शान्तिरक्षितविरचिते "तत्त्वसङ्ग्रह"नामनि ग्रन्थे
यः प्रतीत्य समुत्पादं जगाद गदतां वरः।
तं सर्वशं प्रणाम्यायं क्रियते तत्त्वसङ्ग्रहः ॥ इति ॥
ॐ इदन्च समान्येन, विशेषेण यथा-मगलं निर्विघ्नपरिसमाप्त्यफलक विनापि मङ्गलं निर्विघ्नपरिसमाप्तिदर्शनात् यथा नास्तिकग्रन्थे । मङ्गलं निर्विघ्नपरिसमाप्त्यफकलं , सत्यपि मङ्गले निर्विघ्नपरिसमाप्त्यदर्शनात् यथा कादम्बर्यादौ ॥
+कारणभावे कार्याभावो व्यतिरेकव्यभिचार" इति सरलं लक्षणम् । परं कठिनलक्षणस्यापि सरलार्थबोधनप्रकारमनुसरन् शिष्यबुद्धिञ्चोद्योतयन्नेवमटीकयम् । लक्षणमिदं तर्कप्रकाश-सर्वतन्त्रसिद्धान्तपदार्थलक्षणसङ्ग्रहादिदिशा ज्ञातव्यम् ।
है "कार्याधिकरणवृत्त्यत्वन्ताभावप्रतियोगितावच्छेदकधर्मवत्त्वात्" इत्यर्थः ।