________________
मङ्गलवादः ।
(मुना०) ननु-मङ्गलं न विघ्नध्वंसं प्रति न वा समाप्ति प्रति कारणं विनापि मङ्गलं नास्तिकादीनां ग्रन्थे निर्विघ्नपरिसमाप्तिदर्शनादिति चेन्न । अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य सफलत्वे सिद्धे, तत्र च फलजिज्ञासायां, सम्भवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात्, उपस्थित्वाच समाप्तिरेव फलं कल्प्यते । .. (प्रभा० ) अतिं ये न प्रमाणयन्ति चार्वाकाद्या नास्तिकाः, तेषां पूर्वपक्षमादाय शङ्कते-नन्विति । मङ्गलस्य कारणत्वाभावे व्यतिरेकव्यभिचारं हेतुमाह"विनापि" इति । "निर्विघ्ने"ति । विघ्नध्वंसपूर्वकसमाप्तिदर्शनादित्यर्थः । कारणाभावेऽपि कार्यस्य सत्त्वं व्यतिरेकव्यभिचारः । अयमाशयः-नास्तिका हि ईश्वरमन्यां वेष्टदेवतामनङ्गीकुर्वन्तो ग्रन्थारम्भे किमपि मङ्गलं न तन्वते अथ च तेषां निर्विघ्ना ग्रन्थसमाप्तिदृश्यते, तस्मान्मङ्गलस्य विनध्वंसादि फलं न नियतमतो न कर्त्तव्यमिति शङ्काग्रन्थार्थः । अयमत्र मङ्गलाचरणखण्डनेऽनुमानप्रकार:" मङ्गलाचरणं न युक्त निष्फलत्वात् जलताडनवत्" इति । अथ निष्फलत्वं हेतुः क्षस्वरूपासिद्ध इति कथं मङ्गलाचरणस्य युक्त्वाभावं साधयेदित्युच्येत, तदा तित्परिहारो
यदि "विघ्नभिन्नत्वे सति" इति न निवेश्येत तदा विघ्न एवोक्तलक्षणस्यातिव्याप्तिः स्यात्तस्यापि विघ्नध्वंसजनकप्रतिबन्धकाभावभिन्नत्वात् प्रारिप्सतविघ्नध्वंसाऽसाधारणकारणत्वाच्च। भवति हि घटध्वंसं प्रति मुद्गरप्रहारादिकमसाधारणकारणं, तद्वत् घटात्मकः प्रतियोग्यपि घटध्वंसं प्रत्यसाधारणकारणम्। एवं विघ्नभ्वंसम्प्रति विघ्नस्याप्यसाधारणकारणता वेदितव्या । ततश्च विघ्नेप्यतिव्याप्तिबारणाय "विघ्नभिन्नत्वे सति" इति पदनिवेशः । नहि स्वस्मिन् स्वभेदस्तिष्ठतीति भावः ।
अथ—कारीरीयागेऽतिव्याप्तिवारणाय 'प्रारिप्सित"पदं ज्ञेयम, तस्यापि विघ्नभिन्नत्वात् । विघ्नध्वंसप्रतिबन्धकाऽभावभिन्नत्वात्, वृष्टिप्रतिबन्धकानां विघ्नानां यो ध्वंसः तदसाधारणकारणत्वाच्च । प्रकृते--प्रारिप्सितपदेन ग्रन्थात्मकमेव कार्य विवक्षितम्, तत्प्रतिबन्धकविघ्नध्वंसाऽधारणकरणत्वं तत्राक्षतमेवेतिप्रारिप्सितपदोपादानेन नैव कारीरीयागेऽतिव्याप्तिसम्भावनापि । एवं कालादृष्टादिसाधारणकारणेप्यातिप्रसक्तिफलकं लक्षणेऽसाधारणपदं बोध्यम् । कार्यमात्रम्प्रति साधारणकारणानि तु-१ईश्वरः, ३ तज्ज्ञानेच्छाकृतयः, देश:, काल:, अदृष्टम्, प्रागभावः, प्रतिबन्धकाभावश्चेति नव ज्ञेयानि । तदित्थमुक्ताकारमङ्गललक्षणपदकृत्यप्रकारमजानन् उक्तलक्षणस्य प्रतिबन्धकाभावेऽतिव्याप्तिमाचक्षाण: कश्चिदत्यन्तार्वाचीनो नवतरुणो न्यायनयाऽनभिज्ञो मुधा पाण्डित्यमानमत्ततया सतामुपेक्षणीय एव ।
ॐ हेतौ हेतुतावच्छेदकाभावः स्वरूपसिद्धिर्दोषः तद्वान् हेतुः स्वरूपासिद्धः ।
यद्यपि चार्वाकः प्रत्यक्षातिरिक्तं नानुमानादिप्रमाणमितिमन्वानः . कथमनुमानेन निष्फलत्वहेतुसाधने प्रवर्ततेति जायते शङ्का, तथाप्यनुमानरसिकेन नैयायिकेन सह शास्त्रार्थे तस्यैवानुमानकौशलेनं तत्पक्षपरासनेऽभ्युपगमवादेन प्रवृत्त: स्वप्रौढि ख्यापयतीति सर्वत्र नास्तिक