________________
सविवृतिप्रभोपेतया न्यायसिद्धान्तमुकावल्याः
[ प्रत्यक्षखण्डे
प्रायश्चित्तं कुर्यादिति केवलं मर्यादारक्षायै इत्याहुः । श्रवतारत्वन्तु सर्वथाऽविलुप्तज्ञानक्रियाशक्त्रित्वे सति सात्तान्माथि कविलासवत्त्वम्" इत्यन्यत्र विस्तरः |
८
दमवधेयम् - त्रिविधं + मङ्गलम् — आशीर्वादो नमस्क्रिया वस्तुनिर्देशश्च । परमेश्वरात्स्वस्य स्वशिष्यादेश्व वाञ्छितार्थप्रार्थन माशीर्वादः । स्वापकर्षबोधानुकूलः स्वीयव्यापारविशेषो ( नमः पदार्थः ) नमस्कारः । नमस्कारादिकमन्तरा स्वेष्टदेवतादिकीर्त्तनं वस्तुनिर्देशः । परमूले नमस्कारात्मकं मङ्गलं, मूले तु श्राशीरर्थे लोविधानादाशीर्वादात्मकं ज्ञेयम् ।
मङ्गलस्य लक्षणन्तु -“विघ्न्नभिन्नत्वे सति विघ्नध्वंसप्रतिबन्धकाभावभिन्नत्वे सति चप्रारिप्सित (ग्रन्थ) विघ्नध्वंसाऽसाधारणं कारणम्” इति ज्ञेयम् । विघ्नेऽतिव्याप्तिवारणाय विघ्नभिन्नत्वे सतीति विशेषणम् । विघ्नध्वंसप्रतिबन्धकाभावेऽतिव्याप्तिवारणाय विघ्नध्वंसेत्याद्यपरं विशेषणम् । कारियिागेऽतिव्याप्तिवारणाय प्रारिप्सितेति । ईश्वरादिनवविध साधारणकारणे अतिव्याप्तिवारणाय असाधारण पदनिवेशः ॥ श्राशीर्वा दाद्यन्यतमत्वं, समाप्तिप्रतिबन्धकी भूतदुरितविशेषध्वंसहेतुत्वं वा मङ्गलत्वमिति संक्षिप्तं (सरलं) मङ्गललक्षणम् ।
* विशेषणमात्रोक्तौ प्रकृत्या पूरपूर समर्थेषु अगस्त्यादियोगिवर्येष्वतिव्याप्तिः अतो विशेष्यदलम् । विशेष्यमात्रोक्तौ साक्षान्मायाकार्यभूताकाशादिभूतसर्गनियन्तरि ईश्वरे = कारणब्रह्मणि अतिव्याप्तिरत उभयमुपात्तम् । अविलुप्तज्ञानक्रियाशक्तिमत्त्वञ्च शास्त्रैकबेथम्, अचिन्त्य पदार्थानां केवल तक गम्यत्वात् । उक्तञ्च परमर्षिणा — “ तर्का प्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्ग " ( ब्र० सू० २ । १ । ११ ) इति । तदेतदवतारत्वं रामकृष्णादिषु मुख्यं, कुत्रचिद्वैाणमप्याश्रितमिति पुराणेतिहासादिग्रन्थानां बहुपरिशीलनेन विशिष्टगुरुसम्प्रदायसमधिगम्यमित्यपि न विस्मरणीयम् ।
"
+ “ मङ्गेरलच् ” ( उ० ५ । ७५१ ) इत्यौणादिकेन सूत्रेण गत्यर्थकात् 'मगि' धातोः अलचि प्रत्यये रूपम् ।
† ईश्वरः, तस्य ज्ञानेच्छाकृतयः, दिक्कालौ, अदृष्टम् (धर्माधर्मौ ) प्रागभावश्चेत्यष्टौ साधारणकारणानि । केचित्तु प्रागभावस्थले प्रतिबन्धकसंसर्गाभावं निवेश्य श्राकाशञ्चाधिकं दत्त्वा नवेति वदन्ति । एतच्च न्यायकोशादिषु सुस्पष्टम् ।
S श्रदं स्पष्टीकरणं बोध्यम् — विघ्नभिन्नत्वे सति विघ्नध्वंसप्रतिबन्धकाऽभावभिन्नत्वे च सति प्रारिप्सितविघ्नध्वंसाऽसाधारणकारणं मङ्गलम् ।
उक्तलक्षणलक्ष्य भूतं मङ्गलं विघ्नभिन्नमपि, तथा च - विघ्नध्वंसरूपं यत्कार्यम्, तज्जनको यः प्रतिबन्धकाभावः तद्भिन्नत्वमपि मङ्गलनिष्ठम् । अथच - प्रारम्भेच्छाविषयीभूतो यो ग्रन्थः तत्प्रतिबन्धकीभूतो यो विघ्नः, तत्प्रतियोगिनो ध्वंसस्याऽसाधारणकारणभूतमपीति मङ्गले लक्षणं घटितमेव ।
अथाऽस्य पदकृत्यप्रकारः-