________________
मङ्गलवादः ।
(७
प्रारब्धुमिष्टस्य ग्रन्थस्य विघ्नविघाताय-विनानां प्रत्यूहानां विघाताय ध्वंसाय कृतं मङ्गलं शिष्यशिक्षायै स्वकर्त्तव्यत्वेन ज्ञानं शिक्षा,शिष्याणां शिक्षा शिष्यशिक्षेति षष्ठीतत्पुरुषः । निबध्नाति-ग्रन्थघटकीकरोति-नूतनेत्यादिना। यथाहं ग्रन्थारम्भेऽन्तरायप्रशमनाय मङ्गलं करोमि, तथैव मच्छिष्या अपि शिष्टाचारं पालयेयुरित्यास्तिकसम्प्रदायरक्षणाय मङ्गलं करोतीत्यर्थः ।
(कारिकावली) नूतनजलधररुचये गोपवधूटीदुकूलचौराय ।
तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥१॥ (प्रभा०) नूतनो नवीनो वर्षणाभिमुखजलभरितो यो जलदो मेघः तस्य रुचिरिव रुचिर्यस्य स तस्मै । यदातु-“इवार्थगर्भबहुब्रीही पूर्वपदं स्वसम्बन्ध्युत्तरपदार्थसदृशे लाक्षणिकम्” इति नियमः तदाऽत्र नूतनजलधरो रुचिर्यस्येति विग्रहः । नूतनजलधरपदं नूतनजलधरसम्बन्धिरुचिसदृशमिति लक्षणया सामानाधिकरण्यस्य नानुपपत्तिरित्यायन्यतोऽपि ज्ञेयम् । गोपानाम्-वल्लवानां या वधूट्यो युवत्यः तासां यानि दुकूलानि-क्षौमवसनानि तेषां चौराय अपहारिणे । संसारेति-संसारः प्रपञ्च एव महीरुहो वृक्षः तस्य बीजाय-निमित्तकारणाय, तस्मै-शास्त्रप्रसिद्धाय कृष्णाय वासुदेवाय ( देवकीनन्दनाय) धर्मरक्षायै कृतावताराय भगवते नमः=नमस्कारो भवत्विति मूलकारिकाया ऋजुरर्थः । किञ्च-गां वाणी पिबन्ति सेवन्त इति गोपा यतयः तेषां वधूटीव वधूटी बुद्धिः तस्या यद् दुकूलम् आवरणं तस्य चौराय अपहर्त्रे इत्यर्थः। नव्यत्वेन मुग्धत्वेन चाज्ञानशालित्वसाम्यारोपितं बुद्धौ वधूटीत्वं ज्ञेयम् । दाधिमथास्तु-गां पृथ्वी पान्ति रक्षन्तीति गोपाः पाण्डवाः तेषां बधूटी द्रौपदी तस्या दुकूलस्य वसनस्य चौराय चौलाय वर्धयित्रे इत्यर्थः। “चुलू" समुच्छायते इति धातुः। एतेन-"अज्ञानतः कृतं पापं प्रायश्चित्तेन नश्यति" इति बाल्यावस्थायां (अज्ञजनदृष्ट्या) कृतेन बालिकावस्त्रहरणेन जन्यं यत्पाप तस्य प्रायश्चित्ताय अनाथाय द्रौपये वस्त्रं दत्तवान् भगवदवतारः श्रीकृष्णः । अन्योऽप्येवं इत्यमरकोषप्रामाण्यात् की चकपदस्य मारुतपूर्णरन्ध्रत्वविशिष्टवेणुरूपेऽर्थे शक्तिः, पुनः पृथग् मारुतेतितृतीयान्तविशेषणपददानं कवर्दोषमावहेत् यदि उक्तो नियमो न स्यात् । उक्तनियमेन तु अब कीचकपदस्थ केवले वेणुरूपऽर्थे शक्तिः, तेन विशेषणदान न निरर्थकं तद्वदत्रापि बोध्यमिति भावः । ... इयं तादर्थं चतुर्थी "मुक्तये हरि भजति" इतिवत् । कार्यसमाप्तिप्रतिबन्धकमदृष्टं विनः, तस्य विघातो विशिष्टो ध्वंसः प्रकृतसमाप्तिप्रतिबन्धकयावाद्विघ्नविनाश इति फलितोऽर्थ इत्येके। तस्मै इत्यर्थः । “विघ्नोऽन्तरायः प्रत्यूहः" इत्यमरः ।