________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
किञ्च सिद्धान्तमुक्तावल्या विष्णोर्वक्षसि विन्यस्तत्वकथनेन स्वकृतेर्भगवति समर्पणं तेन च स्वकीर्तिलाभोऽपि सूचित इति शम् ॥ ३ ॥ . (मुक्ता०)-विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति
- नूतनेत्यादि।
(प्रभा० )- ग्रन्थारम्भे कृतस्य मङ्गलस्य साफल्यं साधयितुमाह विघ्नविधातायेति: . (सौ० वि०) ॐ भगवति समर्पणमिति
यत्करोषि यदनासि यज्जुहोषि ददासि यत् । .....यत्तपस्यसि कौन्तेय! तत्कुरुष्व मदर्पणम् ॥ (गी० ६।२७)
इति भगवद्गीतायामशनादिसर्वकर्मणां भगवति समर्पणस्य महाफलप्रदत्वं (अन्तःकरणशुद्धिहेतुकत्वं ) समभिहितम् ।।
+ अलौकिकैकप्रयोजनोद्देशेन प्रवृत्तवाक्यसमुदायो ग्रन्थः । श्राद्या च प्रवृत्तिरारम्भः । अलौकिकत्वञ्चास्य " तत्त्वज्ञानान्निःश्रेयसाधिगमः " ( न्या० १.१।१ ) इति परमर्षिगोतमोक्तरीत्या परम्परया मोक्षरूपालौकिकफलसाधनत्वेन ग्रन्थत्वे घटत एव । परेतु... विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं मतम् ॥ इति पञ्चाङ्गकं वाक्यं ग्रन्थ इत्याहु: । यत्र तु कानिचिदेवाङ्गानि उपलभ्येरन् तत्रेतराणि कल्पनीयानि । अत्र तु प्रायः सुधैटवेयं रीतिः । अथवा–“सम्बन्धप्रयोजनशानाहितशुश्रूषाजन्यश्रुतिविषयशब्दसन्दर्भो ग्रन्थः' इत्याद्यन्यत्र विस्तरः।
.. अत्र यथपि घातपदस्यैव ध्वंसरूपः (उत्पत्तिमदभावरूपः) अर्थः, तेन तावदर्थबोधाय निवेशित 'वि' पदं निरर्थकमेव, तथापि विशिष्टवाचकानां पदानां सतिः पृथग्ः विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वान्नैष दोषः । अस्यायमाशयः-'विघात' इत्यत्र द्वे पदे स्तः । एक 'वि' पदम्, द्वितीयं 'घात' पदम् । श्राद्यमुपसों द्वितीयं प्रातिपदिकम् । तत्र प्रातिपादिकं स्वार्थवाचकम् इति सर्वेषामैकमत्यम् । उपसर्गस्तु केषाश्चिन्मते वाचकः, केषाञ्चिन्मत पदान्तरोगेन तस्यैव अर्थविशेषस्य द्योतकः । तत्रार्थविशेषस्य द्योतकत्वपक्षे विपदस्य घातपदयोगे, सति न नैरर्थक्यम् । वाचकत्वपक्षे तु 'घात' पदेनैव उत्पत्तिमदभावरूपस्य (ध्वंसस्य) अर्थस्योपस्थितौ 'वि'पदमनर्थकमेवाभाति । एतादृशानर्थक्यस्यले प्राचार्या इत्थं समादधते-यत् विशिष्टवाचकपदस्य सन्निधौ यदि पृथगपि विशेषणवाचकं पदान्तरं स्यात्, तदेदृशस्थले विशिष्टवाचकपदस्य विशेष्यमात्रमेवार्थः नतु विशिष्टरूपोऽर्थः । एवञ्च प्रकृते 'घात' पदस्य ध्वंसरूपः (उत्पत्तिमदभावरूपः) नार्थः किन्तु अभावमात्रमर्थः । 'वि'पदात्मकविशेषणयोगे तु सकलस्य 'विधात' पदस्य उत्पत्तिमदभावरूपोर्थो भवति । यथा-रघुवंशकाव्ये “स कीचकैर्मारुतपूर्णरन्ध"रित्यत्र 'कीचका वेणवस्ते स्युयें स्वनन्त्यनिलोद्धताः"