________________
मङ्गलवादः (अनुबन्धचतुष्टयोक्तिः) कथम्भूता सिद्धान्तमुक्तावली, सयुक्तिः सत्यो वादिभिरखण्डनीया युक्तयः तर्का यस्यां सा तादृशी वाद्यखण्ड्यतर्केत्यर्थः।
अनेन द्रव्यादिपदार्थवत्त्वनिरूपणेन ग्रन्थे (श्लेषण ) मुक्तावल्या उपमा सूचिता। ततश्च मुक्तावलीपक्ष एवं योजयितव्यम्-मुक्कामाला हि द्रव्येण साध्या क्रेतव्या निर्मातव्या वा भवतीति “ सद्रव्या" । गुणगुम्फिता=गुणेन सूत्रेण गुम्फिता प्रोता । सुकृतिनां पुण्यवतां यानि सन्ति शुभानि परमेश्वरनामस्मरणादानि कर्माणि तेषां ज्ञापिकाबोधिका । पुण्यवन्त एव मुक्कामालाद्युत्तमभोग्यपदार्थान् लभन्ते नतु पापात्मान इति भावः । सत्सामान्यम् उत्तमा जातिः, विशेषो मुक्तानां महत्त्वं निर्मलत्ववर्त्तलत्वादिकञ्च ताभ्यां नित्यं सदैव मिलिता-सम्बद्धा। अभावे तेजोऽभावरूपेऽन्धकारे सति प्रकर्षण उज्ज्वला वसनादिपदार्थप्रकाशिकेति यावत् । सती समीचीना युकिग्रंथनविशेषो यस्याः सा सद्युक्तिः । एवं यथा मुक्कावली-मुक्कामाला द्रव्यादिसकलपदार्थवती तथा सिद्धान्तमुक्तावलीनामको ग्रन्थोपात्याशयः । अत्र मुक्तावल्या उपमाप्रकटनेन ग्रन्थस्य सर्वथा दोषरहित्यं स्फुटीकृतम् । - एवञ्चास्य ग्रन्थस्य द्रव्यादयः पदार्था विषयः । पदार्थतत्त्वावधारणं प्रयोजनम् । ग्रन्थविषययोः प्रतिपाद्यप्रतिपादकभावः, अधिकारिग्रन्थयोश्च बोध्यबोधकभावः, अधिकारिविषययोश्च ज्ञातृज्ञातव्यभाव इत्यनेकविधः सम्बन्धः । पदार्थज्ञानकामोऽधिकारीति अनुबन्धचतुष्टयं प्रदर्शितम् । तथाच-विषयसम्बन्धादिप्रदर्शनेनास्मिन् ग्रन्थे प्रेक्षावतां प्रवृत्तियुकैवेत्युक्तम्भवति । सकलविद्योपकारित्वात् । एतच्चाह न्यायभाष्यकार:-अभिधेयप्रयोजनसम्बन्धप्रकरणे उद्देशसूत्रभाष्ये
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
श्राश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥ इति ॥ मनुरपि चान्वीक्षिकी विद्यां प्रशशंस । तथाहि- ..
त्रैवियेभ्यस्त्रयीं विद्या दण्डनीतिं च शाश्वताम् । .. आन्वीक्षिकों चात्मविद्यां वातरम्भांश्च लोकतः ॥ इति ॥
* परमस्य शास्त्रस्य मोक्ष एव परमं प्रयोजनम् । मोक्षश्च न्यायमते आत्यन्तिकी दुःखनिवृत्तिः । दुःखानि तु एकविंशतिसङ्ख्याकानि । तथाहि-षड् इन्द्रियाणि, षड् विषयाः, षड् बुद्धयः, शरीरम्, सुखम्, दुःखश्चेति। एतेषां निवृत्तिक्रमस्तु–“शास्त्रेण तत्त्वज्ञानं भवति, तेन मिथ्याज्ञानस्य नाराः, ततो रागादिदोषाणां नाशः, ततः प्रवृत्तेरनुत्पादः, ततो जन्मानुत्पत्तिः, ततो दुःखानुत्पाद" इति शेयः । एतदभिप्रायेणाऽऽह पदार्थतत्त्वावधारणं प्रयोजनमिति । सर्वञ्चतत्"दुःख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः (न्या० ११११२) तदत्यन्तविमोक्षोऽपवर्गः (न्या० १।१२२) इतिमहर्षिगोतमकृतन्यायसूत्रमूलकमेव ।
* अनुबन्धत्वन-ग्रन्थप्रवृत्तिप्रयोजकज्ञानविषयत्वम् । .