________________
.४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
ननु - सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥
[प्रत्यक्षखण्डे
इति नियमाद् अत्र च विषयादीनामनुः कथमस्मिन् ग्रन्थे प्रेक्षावतां प्रवृत्तिः स्यादिति शङ्कामपनिनीषुः विषयादिकं सूचयति — लद्रव्येति । (मुक्ता० ) - सद्रव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिका सत्सामान्यविशेषनित्यमिलिता भावप्रकर्षोज्ज्वला । विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम् ॥ ३ ॥ (प्रभा० ) – सद्रव्या = पृथिव्यादिनवद्रव्यैः सहिता युक्ता तेषां । प्रतिपादनकरीत्यर्थः । गुणगुम्फिता गुणैः रूपरसादिभिश्चतुर्विंशतिसङ्ख्याकैर्गुम्फिता युक्का । सत्कर्मणाम् उत्तेपणादिपञ्चविधकर्मणां ज्ञापिका = बोधिका । सत्सामान्येति -सत् + जातिरूपं सामाम्यम्, विशेषाः नित्यद्रव्यवृत्तयोऽनन्ताः स्वतोव्यावृत्ताश्च नित्यः = समवायाख्यो नित्यसम्बन्धः तैः मिलिता । अथवा — नित्यमिलितं समवायसम्बन्धः । सन्ति सामान्यविशेषनित्यमिलितानि यस्यां सा । श्रभावप्रकर्षोज्वला=अभावस्य भावभिन्नस्य सप्तमपदार्थस्यं यः प्रकर्षः प्रागभावादिभेदरूपं वैलक्षण्यं तस्योज्ज्वला प्रकाशयित्री । एषा = बुद्धिस्था सिद्धान्तमुक्तावली = सिद्धान्ता एव मुक्का माणिक्यानि तासामावली पङ्क्तिः । विष्णोः = कमलापतेर्नारायणस्य सविशेषब्रह्मणः वक्षसि = वक्षःस्थले, विन्यस्ता= विशेषेण न्यस्ता सम्यगर्पिता, सकृतिनाम् = मेधाविनां पण्डितानामित्यर्थः । मनसः= हृदयस्य, मुद्दम् = सन्तोषं || प्रसन्नतामित्यर्थः । चिरं = बहुकालम्, वितनुताम् = विस्तारयतु
(सौ० वि०) हेयोपादेयविवेकनि पुराधिषणातिशयवतामित्यर्थः ।
* ननु – यथा अधिकरणे उपपदे “ चरेष्टः " ( ३ । २ १६ ) इति कर्त्तरि टे कृते उपपदसमासे टित्त्वात् ङीपि "कुरुचरी" ति स्यात् नतु तद्वत् " प्रतिपादन करी" ति ङीबन्तः प्रयोग: साधुरिति चेद् ? भ्रान्तोऽसि — " कृञो हेतुताच्छील्यानुलोम्येषु " ( ३ । २ । २० ) इति सूत्रेण हेत्वादिषु द्योत्येषु करोतष्टविधानात्, टित्वात् ङीपो निराबाधाच्च " यशस्करी विद्या " इतिवत् प्रयोगसाधुतापत्तेः । अतएव—“नित्यानन्दकरी ” – इत्याद्याः प्रयोगा अन्नपूर्णादिष्वाचार्याणां सङ्गच्छन्त इति दिक् ।
+ " यद्वा – सामान्यं द्विविधं जातिः अखण्डोपाधिश्चेति तर्कालङ्कारादिभिः सामान्यपदार्थो द्वैधा विभक्तः । विश्वनाथपञ्चाननस्तु -- जातिमेव निरूपयिष्यति नतु अखण् डोपाधिम्, अत: सदिति प्रशस्तमित्यर्थः । प्राशस्त्यञ्च सकलतार्किकसम्मतत्वम् । जातिर्हि सकलतार्किकैः सम्मन्यते तु खडोपाधिः । एतेन स्वयमख एडोपाध्यनिरूपणे बीजमपि दर्शितम्" इति मञ्जूषा ।
8 रचयिष्यमाणामपि मुक्तावलीं बुद्धौ सन्निहितां मत्वा "एषां " इति निर्दिशति । ||साचेयं प्रसन्नता सकलशास्त्रेषूहापोह कुशलतापूर्वक आनन्दविशेषः । अस्या न्यायविद्यायाः