SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मङ्गलवादः बोधानुपपत्तेः । एवमनियताकाङ्क्षास्थल एव समाप्तपुनरात्ताख्यो दोषो ज्ञातव्यः । नियताकाङ्क्षास्थले तु नासौ दोषः । यथाऽत्रैव विधुप्रभृतीनां चूडामण्यादिकरणे कैमर्थ्याकाङ्क्षायां जायमानायां लीलेत्यादिविशेषणोपादानं सप्रयोजनम् । तेन च भवतिक्रियान्वितस्यापि भवपदस्य पुनरन्वयो न दोषावहः। अनेन भवस्य नृत्यवर्णनेन प्रमुदितात् तस्मात् प्रार्थिता अर्था अवश्यं लभ्यन्त इति सूचितम् । नाप्रमुदितः कश्चिदपि कस्यचिन्मनोरथं पूरयतीति लोकप्रसिद्धमेव ध्वनितम् । अधिकन्तु दिनकरीरामरुद्रयादिग्रन्थे द्रष्टव्यम् । गौरवभयात् छात्राणां सुकुमारमतीनां बुद्धिव्याकुलताभयाच्च न बहु प्रपञ्चितम् ॥ १॥ ........, (मुक्का०) निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः। ..... विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः ॥२॥ (प्रभा०) शिष्याणामवधानाय अप्रतिजानीते-निजनिर्मितेति-निजेन स्वेन निर्मिता रचिता या कारिकावली तां निजनिर्मितकारिकावलीम् । अतिसंक्षिप्त-अत्यन्तं संक्षिप्ताः शब्दसंक्षेपं प्राप्ता याः चिरन्तनानां कणादप्रभृतीनां मुनीनाम् उकयो वचासि वचःप्रतिपाद्या युक्तयः ताभिः । कौतुकात्-कुतूहलात् । ननु-एव अनायासादेवेत्यर्थः, विशदीकरवाणि स्फुटीकरोमि । कीदृशोऽहमित्याह-राजीवेति । राजीवे तदाख्ये शिष्ये या दया कृपा तस्या वशंवदः तदधीन इत्यर्थः । ... ... अयं भावः—यद्यपि लीलावत्यादयः प्राचीना निबन्धाः सन्ति येषां पठनेनैव कारिकावलीबोध्योऽर्थो ज्ञातुं शक्यतेऽतो मुक्तावलीग्रन्थनिर्माणं निष्फलमेवाभाति, तथापि तेषु भूयान् पाठः, सुकुमारमतीनां बालानां यस्याध्ययने बहुक्लेशो भवतीत्यालोच्य अल्पग्रन्थेनैव यथा बहुन्यायसिद्धान्तो ज्ञातः स्यात् तथा मुक्तावलीग्रन्थो रचनीय एवेति कृत्वा नास्य निर्माणं निष्फलम् । ... .... . ....... अत्र चिरन्तनोक्तिकथनेन स्वस्य ग्रन्थस्य सन्मूलत्वं सूचितम्, कपोलकल्पितत्वञ्च वारितम् । एतेन ये केचिदाधुनिकाः गुरुसम्प्रदायशून्या दर्शनमर्मबोधनस्तमतयो मुकावली जालग्रन्थं वदन्ति ते परास्ता वेदितव्याः । एतच्चाग्रे ऽस्मिव्याख्याने तत्र तत्र स्फुटीभविष्यति । राजीवेतिपदेन स्वस्य ग्रन्थकरणे प्रयोजनं प्रदर्शितम् । (सौ० वि०)-* प्रतिज्ञां करोति । प्रतिज्ञा च–स्वकर्त्तव्यत्वेन निर्देशः । द्रव्यादिनिरूपणस्यैव स्वकर्त्तव्यत्वेन प्रतिज्ञानात्। . ...... " राजीवनामके शिष्ये शुश्रूषादिना जाता या दया, तया वशंवदस्तधीनः सन्नित्यर्थ" इति प्राचीना प्रभा । एतेन 'सेवया वशीभूते। गुरु संथा द्रागेव शास्त्ररहस्यं शिष्यहृदयेऽङ्कयति न तथा प्रकारान्तरेणेति" स्पष्टः स्वाऽनुभवः प्रकाशितः। ... आर्षवचनोपन्यासेन सन्मूलत्वज्ञापनरूपे । ....... . , सत्सम्प्रदायमूलताप्रदर्शनेनेति शेषः । .. ..
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy