________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
ईश्वरं प्रार्थयते-चूडामणीकृतेति । अचूडामणिः चूडामणिः सम्पद्यमानः कृत इति चूडामणीकृतः, चूडामणीकृतो विधुः चन्द्रो येन स तथोक्तः । अवलयः वलयः सम्पद्यमानः कृत इति वलयीकृतः, वलयीकृतो वासुकिः तदाख्यो नागो येन स तथोक्तः । भवः भवति अस्मात्प्रपञ्च इति भवो महादेवः भव्याय-कल्याणाय भवतु ।
- पुनः कीदृशो भव इत्याह-लोलेति। लीलया ताण्डवं लीलाताण्डवं तत्र पण्डितः कविः कुशल इत्यर्थः।
केचित्त-अस्मिश्लोके $समाप्तपुनरात्ताख्यं वाक्यदोषमाचक्षते । तथाहि-यत्र विशेष्यवाचकं पदं पूर्व क्रियया अन्वितं सत् निराकाङ्कं भवति, पुनस्तस्यैव अन्यविशेषणेन सहान्वयलाभाय उपादानं समाप्तपुनरात्तत्वं दोषः । यथा चात्रैव "भव" इति विशेष्यपदस्य "भवतु" इति क्रियापदेन प्रथममन्वयो जातः, तदुत्तरं तस्यैव लीलेत्यादिविशेषणपदेन सह सम्बन्धकरणाय "कीदृशो भव" इत्यनुसन्धानमेवोक्कदोषः।
__एतस्य समाधानन्तु-लीलेत्यादिपदं न विशेषणं किन्तु विशेष्यपदमेतत्,भवान्तानि प्रथमान्तानि पदान्येव विशेषणानि, तेन नैवायं दोषः । अथवा-विधोः किमर्थ चूडामणीकरणं किमर्थं वा वासुकेर्वलयीकरणमिति भवत्येवाकाङ्क्षा । तदुपशमायैव लोलेत्यादिविशेषणपदस्योपादानं कृतम् । यदीदं विशेषणपदं नोपादीयेत तदेष्टान्वयस्य लाभ एव न स्यात् । “निराकाङ्क्षा काचित् प्रतिपत्तिः (वाक्यार्थबोधः) न सम्भवति" इति न्यायात् । तस्मादत्रोक्तदोषसम्भावनैव नेति बोध्यम् ।।
अयं भावः-क्रियाकारकपदानां परस्पराकाङ्क्षा नियता, पुत्रादिपदानामपि. स्वसम्बन्धिपित्रादिपदाकाङ्क्षा नियता। प्रयोजनाकातापि नियतैव, तेन विना वाक्यार्थ
' (सौ०वि०) *'कृभ्वस्तियागे सम्पद्यकर्तरि च्चिः' (५।४।५०) इति सूत्रण विहितः 'चि' प्रत्ययः “अभूततद्भाव इति' वार्तिकेन अभूततद्भावेऽर्थे भवति । अस्य (चुडामणिशब्दस्य) 'च्ची च' (७।४।२६) इत्यनेन इवर्णस्य पूर्ववर्तिनो दीर्घः । वेलोपे च्य्वन्तत्वादव्ययत्वम् । __+'भू' धातो बर्बाहुलकाद् "कृत्यल्युटो बहुलम्" ( ३ । ३ । ११३ ) इत्यप् ।
* पण्डा सजाता अस्येति पण्डितः। “तदस्य सञ्जातं तारकादिभ्य इतच्" (५।२।३६) इतीतच् प्रत्ययः । “संख्यावान् पण्डितः कविः" इत्यमरः।
वाक्ये समाप्ते पुनस्तदन्वयीयशब्दोपादानं समाप्तं सत्पुनरुपात्तमिति व्युत्पत्तरिति प्रदीपः। यथा उदाहृतं "चन्द्रालोके' द्वितीयमयूखे-" एष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदेत्यम्बु. बुधिबान्धवः" । अत्र "उदेति" इत्यन्तेन वाक्यार्थे समाप्ते “अम्बुधिबान्धव" इत्यस्य विशेषा. नाधायकस्य पुनरुपादानम् । एवमेव काव्यप्रकाशे-सप्तमोल्लासे "केकार"-इत्युदाहरणे "एतादृशः काणः प्रेम तनोतु वः' इति समाप्तेऽपि वाक्ये पुनः तत्काणस्य कर्तुः"नववय"-इति विशेषणाभिधानेन पुनरुपात्तता । " क्रियाकारकान्वयेन समाप्तेऽपि वाक्ये विशेषाभिधित्सां विना पुनस्तद्वाक्यान्वयि पदाभिधानं यत्र, तत्रायं दोष इति तु सारः। । .. ..