Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
लक्षणाप्रपनः।
विपने दण्डमाह-"कथमन्यथे"ति । कथम् = ययेवं नानासंस्कारैरेकं स्मरणं न स्वीक्रियेत अन्यथा= एवं नानासंस्काराणामेकस्मरणम्प्रति जनकत्वाभावे, नानावर्णैः = नानावर्णानां प्रत्येकसंस्कारैः, एकपदस्मरणम् नानावर्णगोचरमेकपदीयस्मर. णम्, कथं स्यात् ? = कथमपि नैव स्यादित्यर्थः । तथा च सर्वत्र शाब्दबोधानुपपत्तिः । तस्मात् पदजन्यपदार्थोपस्थितिः समूहालम्बनास्मिका सत्येव शाब्दबोधमात्रप्रति कारणम् ।
इदमाकूतकम्-पदस्मरणवदाशुतरविनाशिनीनां ऋमिकाणां पदजन्यपदार्थोपस्थितीनामपि मेलनासंम्भवः, तस्मात्सर्वत्र पदजन्यपदार्थोपस्थितिः समूहालम्बनास्मिकैव कारणम् । एवञ्च सर्वत्र युगपदेव सकलपदार्थानां "विशेष्ये विशेषणमि"ति न्यायेनैव शाब्दबोध: नतु विशिष्टस्य वैशिष्टयमिति रीत्या । तजनकविशेषणतावच्छेदकप्रका. रकनिर्णयस्य पूर्वमभावादिति दिनकरी।
प्राचीनमतं दर्शयितुमाह-"परनित्व"त्यादिना। तावत्पदार्थानां स्मरणात्= तत्तत्पदजन्पदार्थीयस्मृतेः, एकदैव = एककालावच्छेदेनैव । शिष्टं स्पष्टम् । खनेकपो. तन्यायमुदयनाचार्यसम्मत्या दर्शयति-"वृद्धा" इति । सर्वे पदार्थाः = पदवयादिव्यवहित पदोपस्थापिताः । एकपदमात्रेण व्यवहितपदोपस्थापिताः, अव्यवहितपदोपस्थापिताश्च पदार्थाः । परस्परेण = विशेषणविशेष्यभावेनेत्यर्थः । स्पष्ठमन्यत् । अत्र वृद्धयुवशिशुभिः कपोतैश्विरतरचिरसनिहितकालोक्तानां पदार्थानां साम्यं बोध्यम् । केचिदित्यनेमात्र पक्ष स्वारुचिः प्रकाशिता । (मु०) अपरे तु।
यद्यदाकांक्षितं योग्यं सम्भिधानं प्रपद्यते ।
तेन तेनान्वितः खार्थः पदेरेवावगम्यते ॥ तथा च खण्डवाक्यार्थबोधानन्तरं तथैव पदार्थस्मृत्या महावाक्यार्थबोध इत्यप्याहुः।
(प्र० टी०) अत्रैव मतान्तरमाह-"अपरेत्वि"ति। "यद्यदि"ति-पाकाक्षितम् = स्वार्थाकांक्षितम् , योग्यम् = स्वार्थयोग्यम् यद्यत् सन्निधानम् = भासत्तिरूपां सनिधिम्, प्रपद्यते = स्वार्थोपस्थितिविषयो भवति तेन तेनैव = कर्मस्वकरणत्वादिना, अन्वितः= संसर्गवान् स्वार्थः = घटत्वादिरूपोऽर्थः, पदैरेव = घटादिपदैरेव, अवगम्यते = ज्ञायते एवमन्वितः स्वार्थः प्रथमं पदरेनुभाव्यते अनन्तरं च महावाक्यार्थबोधः। एवं सति पूर्वोक्नसमूहालम्बनात्मकं पदार्थमणं विनापि निर्वाह इत्याशयेनाह-"तथा चेत्यादि "पाहु"रित्यन्तग्रन्थम् ।
* कणादसूत्रभाष्यकर्तृणां प्रशस्तपादाचार्याणां मतमित्यर्थः । अत्रानयोर्दयोर्मतयोः प्राचीनार्वाचीनत्वे पण्डितैरेव विवेच्ये ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/adb8383816708af86a2e6880169e7cbe04bb05842a4ad5b35b806020cb4a4199.jpg)
Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486