Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 51
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २०१ स्मरणं जन्यते, तत्रासत्तिवशेन ' विशेष्ये विशेषणम्' इति रीत्या पक्वजनिकर्तृत्व-पद्मत्वविशिष्टानयनस्यैकदैवान्वयबोधः, यद्वा पङ्क-जनि-कर्तृत्वादीनां प्रत्येकपदोपस्थिताना प्रथमस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मवस्यानन्तरमानयनान्वय इत्यायूह्यम् ; न चैकस्य पङ्कजपदस्य पद-वाक्यभावविरोधः, समु. दायापेक्षया पदत्वम् , अवयवापेक्षया च वाक्यत्वमित्येवमविरोधात् ; न च गवादिपदेऽपि योगरूढे (ढिः), 'डो' प्रत्यये शस्यवधारकामावानियतैकप्रकृतिकत्वेनावापोद्वापकल्पनासम्भवात् , अनुशासनं तु रेखा. गवयेन सत्यगवयज्ञानवत् साधुत्वाद् व्याख्यानमात्रपरम् ; न च धेन्वादिपदेऽप्येवं स्यात् , जानु-दानु पदयविषयकम् । भवतु मिलितविषयकमेकं स्मरणं योगरूढिप्रतिसन्धानलक्षणसहकारिसहकृतात् पकजपदादेवमपि कथमेक. दैव पक्कजनिकर्तत्वविशिष्टपद्मान्वयवोध इत्यपेक्षायामाह-तत्रेति-मिलित गोचरैकस्मरणे सतीत्यर्थः। आसत्तिवशेन पङ्कजेत्येकपदोपस्थाप्यत्वलक्षणासत्तिबलेन । विशेष्य इति-विशेष्ये आनयने कर्मताद्वारा पद्मस्य तत्र कस्तत्र जनस्तत्र पकजस्यान्वय इत्येवं 'विशेष्ये विशेषणं तत्रापि विशेषणान्तरम्' इति रील्या पङ्कजनिकर्तत्वविशिष्टपद्मत्वविशिष्टानयनस्वैकदैवान्वयबोधः सम्भवति, यतो विशिष्टवैशिष्ट्यबोध एवं विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वम्, प्रकृतान्वय. बोधोऽपि यदि विशिष्टवैशिष्ट्यावगाहिबोधः स्यात् तदा विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र कारणत्वं भवेदिति पङ्कजनिकर्तत्वविशिष्टपद्मत्वलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयो निरुक्तपद्मवप्रकारकस्मरणरूप इति निरुक्तपद्मत्वविशिष्टे पक्कजपदसलकेतप्रतिसन्धानाभावान्निरुक्तपद्मत्वप्रकारकस्मरणाभावे निरुक्तशाब्दबोधो न भवेदपि, 'विशेष्ये विशेषणम् । इति रीत्या निरुक्तबोधाभ्युपगमे तु स बोध उपलक्षितवैशिष्ट्यावगाहोव, तत्र च न विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणले किन्तु विशिष्टबुद्धिरूपं तं प्रति विशेषगज्ञानमेव कारणम् , मिलितगोचरमेकं स्मरणं च विशेषणशानं भवत्येवेति तत उक्तरीत्याऽन्वयबोधः स्यादेवेत्यर्थः। अथवा पङ्कजपदसन्निविष्टानामुपपद -धातु-प्रत्ययपदानां प्रत्येकशक्त्योपस्थितानां पङ्क-जनि. कर्तत्वानां प्रथमं पङ्कजनिकर्तेत्येवमन्वयबोधस्तदनन्तरं समुदायशक्त्योपस्थितेन पद्मत्वविशिष्टेन समं पङ्कजनिकर्तुरभेदेनान्वयबोधस्तदनन्तरं पङ्कजनिकर्तृत्वविशिष्टपद्मस्य कर्मत्वरूपद्वितीयार्थद्वाराऽऽनयनान्वयबोध इत्येवमभ्युपगमेऽपि न किञ्चिदनुपपन्नमिस्याह-यद्वेति । तेन समं पङ्कजनिकर्तृत्वविशिष्टेन समम्। 'पद्मत्वस्य' इत्यनन्तरम् ‘अन्वयबोध' इत्यस्यानुकर्षण सम्बन्धः । 'आनयनान्वयः' इत्यस्य पद्मत्वविशिष्टस्य कर्मत्वद्वाराऽऽनयनेन सममन्वयबोध इत्यर्थः । नन्वेकस्यैव पलकजपदस्योपपद-धातु-प्रत्ययः प्रत्येक स्वस्वशक्त्युपस्थितार्थानामन्त्रयबोधजनकत्वेन वाक्यत्व समुदायशक्त्या च पदमरूपै. कार्थोपस्थितिमात्रजनकत्वेन पदत्वमित्येवं पदत्व-वाक्यरवयोरेकस्मिन् समावेशो विरोधान्न संभवतीत्याशङ्ख्य प्रतिक्षिपतिन चेति 1 पदत्व-वाक्यत्वयोरेकापेक्षयकत्रावृत्तित्वमेव विरोधो न त्वयेक्षाविनिर्मोकेणैऋत्रावृत्तित्वम्, पकजयदे च समुदायापेक्षया पदत्वमवयवापेक्षया च वाक्यत्वमित्येकापेक्षयैकत्रावृत्तित्वलक्षणस्य विरोधस्यापेक्षाभेदेनेकत्र सत्त्वेऽपि न हानिरिति निषेधहेतुमुपदर्शयति-समुदायापेक्षयेति । ननु गोपदेऽपि गमिधातु-डोप्रत्ययाभ्यां गमनकर्तृत्वान्वयबोधकत्वस्य समुदायशक्त्या गोरूपार्थोपस्थितिजनकत्वस्य च सम्भवेन योगरूढिः स्यादित्याशक्ष्य प्रतिक्षिपति-न चेति । निषेधे हेतुमाहडोप्रत्यय इति डोप्रत्ययस्य कर्तरि शक्तिरित्येवं निश्चय कारणं नास्ति, 'गमे?' [पा० उगा० २२५] इत्यनेन गमिधातुत एव अप्रत्ययस्य विधानमिति नियतकप्रकृतिकत्वेन गोपदसाधुत्वार्थमेव डोप्रत्ययविधानम् , न तु डोप्रत्ययसद्भावे गमनकर्तरूपार्थप्रत्ययभावः, डोप्रत्ययभावे गमनकर्तरूपार्थप्रत्ययाभाव इत्येवमन्वय-व्यतिरेकलक्षणावापोद्वापकल्पनायाः शक्तिमाहिकाया अभावात् , यतः पदे गमिधातु स्ति, अथ च डोप्रत्यय इत्येवं गमिधातोरभावे डोप्रत्ययसद्भावे गमनातिरिक्तार्थकतत्वाव. बोधस्यादर्शनेन डोप्रत्यये कर्तृत्वे शक्त्यवधारणासम्भवादित्यर्थः । यदि डोप्रत्ययस्य न कर्तृत्वरूपार्थे शक्तिः, तहि किमर्थ गमिधातुतो डोप्रत्ययविधानमित्यपेक्षायामाह-अनुशासनं स्विति-गवयानभिज्ञस्य सत्यगवयस्वरूपावगतये यथा गवयाकृति रेखया दर्शयति ततो रेखागवयेन सत्यगव्यस्वरूपम गच्छति पुरुष तथा गमिधातुतो डोप्रत्ययविधानतो गोपदसाधुत्वमात्रावगतिर्भवति, तदर्थमेव तु " गमे?" इति गौरिति व्याख्यानमात्रम्, अर्थाद् धातुप्रत्ययार्थसमाश्रयणेन गौरित्यस्य गच्छत्तीति गौरिति व्याख्यानमात्रपरं प्रकृतिप्रत्ययविभागसमाश्रयणम् , न तु वस्तुगत्या गमनकर्तेति गोपदात् प्रतीयते,

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274