Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 156
________________ ३०६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । सम्भवात् , न चाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् , जन्याध्यास एव निरुपा. धिके सादृश्यापेक्षणात्, न चाज्ञानाध्यासेनैव सादृश्यापत्तिः सुवचा, जाड्येन हि सादृश्यं वाच्यम् , तच्च जडवादात्म्यापत्त्या; न चाज्ञानं तादात्म्येनाध्यस्तम्, किन्त्वहमज्ञ इति संसर्गेणाध्यस्तमिति, अतो. ऽनाद्याभासतादात्म्याध्यासेन जाड्यापत्त्या सादृश्ये सत्यहङ्काराध्यासो युज्यते । न चाभासे प्रमाणामावा, आदर्श मुखमिति स्पष्टं मुखान्तराभासात् , एकत्र क्लुप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायेनाज्ञानेऽपि ............ तद्रूपेणाहवारेण समं सादृश्यस्य सम्भवेन तद्वलाचैतन्य निरुपाधिकाहङ्काराध्यास उपपद्यतेतरामित्याह- आभासतादास्यापत्त्या चेति-अज्ञानगतचैतन्याभासतादात्म्यापत्त्या, जडात्मकाहङ्कारेण समं जडत्वलक्षणसाधारणधर्मवत्वेन सादृश्यापन्ने चैतन्येऽहङ्कारतादात्म्यारोपलक्षणाहवाराध्याससम्भवादित्यर्थः । नन्वनादिभूताज्ञाने चैतन्याभासोऽपि न वास्तविको वस्तुभूतस्य तस्याभावात् किन्त्वध्यस्त एवेति तदध्यासस्यापि निरुपाधिकाध्यासरूपत्वेन चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्य निमित्ततयाऽपेक्षणीयमतस्तत्सादृश्योपपत्तयेऽनादिभूताज्ञाने चैतन्याभासतादात्म्यापत्तिमूलकचैतन्याभासगतकिश्चित्साधारणधर्मवत्त्वं वाच्यमित्यनवस्थापत्तिरपरिहार्यत्याशय प्रतिक्षिपति-न चेति । आभासाध्यासेऽपि अनादिभूताज्ञाने चैतन्याभासाध्यासेऽपि । तदपेक्षायां चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यापेक्षायाम् । अनवस्थापत्तिः अवतरणोपदर्शितप्रकारेणानवस्था प्रसज्यत इति । निषेधे हेतुमाह-तस्यानादित्वादिति- अनादिभूताज्ञाने चैतन्याभासाध्यासस्यानादित्वात् , अनादेने किञ्चिजन्यत्वमिति तत्र सादृश्यं निमित्ततया नापेक्षितमित्यर्थः । अनाद्यध्यासे सादृश्यस्य नापेक्षेत्येतत्स्पष्टप्रतिपत्तये स्वाह-जन्याध्यास एवेति- एक्कारेणाजन्येऽनाद्यध्यासे सादृश्यापेक्षणस्य व्यवच्छेदः । नन्वज्ञानमेवात्मन्यध्यस्तम्, अज्ञानाध्यासोऽपि चैतन्ये, सादृश्यमन्तरेण न सम्भवतीति जडस्वरूपेणाज्ञानेन चैतन्यस्य सादृश्यं जडत्वेनैव धर्मेणेत्येतावताऽपि जडत्वेनाहङ्कारेणापि समं चैतन्यस्य सादृश्यात् ततोऽहकाराध्यासो निरुपाधिकश्चैतन्ये सम्भवेदेवेति किमित्यनाद्यज्ञाने चैतन्यस्याभासः कल्पनीय इति अनादिभूताशाने चैतन्याभासस्यैवाभावान्न चैतन्याभासतादात्म्यापनं चैतन्य जीव इत्याशझं प्रतिक्षिपति-न चेति- अस्य सुवचेत्यनेनान्वयः । निषेधे हेतुमाह-जाड्येनेति। हि यतः, सादृश्यम् अहङ्कारेण समं चैतन्यस्य सारश्यम् । जाड्येन जाड्यात्मकधर्मेण । वाच्यं वक्तव्यम् । तश्च जाड्यं च। जडतादाम्यापत्त्या जडेन केनचित् सह तादात्म्यं कस्यचिजडस्य वा तादात्म्यं तदापत्त्या भवेदिति, अजडस्य चैतन्यस्य जाज्यं वस्तुतो नास्ति किन्तु जडतादात्म्यापत्त्या स्यादिति यावत् । ननु तदर्थमेवाज्ञानाध्यासः स्वीक्रियते, चैतन्ये अज्ञानाध्यासादेव जडत्वरूपाज्ञानतादात्म्यापत्तिश्चैतन्ये स्यादित्यत माह-न चेति-अस्या 'अध्यस्तम' इत्यनेनान्वयः, अज्ञानं चैतन्ये तादात्म्यैना. ध्यस्तं न चेत्यर्थः, अज्ञानस्य चैतन्ये तादात्म्येनाध्यासे सत्येवाज्ञानस्य जडत्वात् तत्तादात्म्यापनस्य चैतन्यस्यापि जडत्वापत्त्या जडत्वेनाहकारसादृश्यं तस्याहवाराध्यासप्रयोजकं भवेन चैवमित्याशयः। तत् किमज्ञानं चैतन्ये नाध्यस्तमेव ? तथा सत्यनध्यस्तस्य तस्य चैतन्यवद् वस्तुत्वेऽद्वैतवादो व्याहन्येतत्याशयेन पृच्छति-किन्विति । उत्तरयति- अहमक्ष इतीति-अहमज्ञ इत्याकारकवृत्तिरूपेण संसर्गेण चैतन्येऽज्ञानमध्यस्तमतोऽध्यस्तत्वादज्ञानस्य वस्तुत्वं नापतति नवा तथाध्यासतो जडत्वापत्तिश्चैतन्ये, ततो नाज्ञानाध्यासतोऽहाराध्यासप्रयोजकमहङ्कारसादृश्यं चैतन्ये घटत इत्यर्थः । अतोऽस्माद्धेतोः। अनाद्याभासतादात्म्याध्यासेनेति- अनादिभूताज्ञानेऽनादियश्चैतन्याभासस्तस्य चैतन्ये यस्तादात्म्याध्यासस्तेनेत्यर्थः । जाड्यापत्या चैतन्ये जाज्यापत्त्या। सादृश्ये सति जडत्वरूपसाधारणधर्मेण चैतन्येऽहकारस्य सादृश्ये सति । अहकाराध्यासो युज्यते चैतन्येऽहङ्काराध्या सो घटत इत्यर्थः । अनादिभूताज्ञाने चैतन्याभास इत्यत्र प्रमाणमेव नास्तीत्यपि नास्तीत्याह-न चेति। आदर्श यन्मुखं दृश्यते तद् प्रीवास्थमुखं न भवति किन्तु मुखान्तरमेवाभासत इति तद्दष्टान्तेनाज्ञानेऽपि यचैतन्यमवभासते तच्छुद्धचैतन्यं न भवति किन्तु चैतन्याभास एवेत्येवं चैतन्याद् भिन्नस्य चैतन्याभासस्य स्वीकारादित्याह- आदर्श मुखमितीति- ग्रीवास्थं यन्मुखं तस्य प्रीवैवाधारो न त्वादर्श इत्यादर्शाधिकरणतया प्रतीयमानं मुख स्पष्टं मुखान्तरमिति तस्य यथा मुखाभासत्वं तथा व्यापकीभूतं चैतन्यं स्वापेक्षयाऽव्यापके ऽज्ञाने नावस्थातुमर्हतीति अज्ञानाश्रिततया प्रतीयमानस्य चैतन्यस्य चैतन्यान्तरत्वमिति तस्य चैतन्याभासत्वमित्यर्थः । नन्वादशैं मुखान्तरं तथादर्शनात् क्लप्तं न स्वज्ञाने चैतन्याभास इत्यत आह- एकोति- एकत्र मुखे मुखान्तरकल्पनानिमित्ततया क्लप्तं युक्ति

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274