Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः ।
पयन्ति न पारमार्थिकान्, इति नायमपि प्रकार उभयोः शुद्ध्य( द्धि )विशेषाय ॥ ११२ ॥
प्रत्युतात्मनि कर्तृत्वं, साजधानां प्रातिभासिकम् ।
वेदान्तिनां च निर्वाच्यं, मतं तद् व्यवहारिकम् ॥ ११३ ॥ नयामृत-प्रत्युत इति । प्रत्युतेति वैपरीत्ये, साच्चयाना मते कर्तृत्वम् , उपलक्षणाद् भोक्तृत्वादि च, प्रातिभासिकं- अन्यस्थमेवान्यनारोपितम् , वेदान्तिनां तु मते नान्तःकरणधर्माणां कर्तृत्वादीनां कर्तव्यम् , तच्च परमार्थतोऽसदपि व्यवहारतः सदिति स्थूलव्यवहारानुरोधाद् वेदान्तदर्शन एवाशुद्धत्वं स्यात् , अविद्ययाऽपि अन्यधर्ममात्मन्यस्पर्श यदु]पचारेण च व्यवहारबलं कुण्ठमतिनिश्चलबलं चोत्ते. जयतीति साश्यदर्शने एव शुद्धत्वं स्यादिति भावः ।। ११३ ॥
किञ्च, सत्कार्यवादित्वादपि साङ्क्षयस्य न व्यवहारानुरोधित्वम् , व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्तिं पश्यन्नसत्कार्यपक्षमेवाश्रयते, न च श्रणिकासत्कार्यानभ्युपगममात्रेणास्य अस्य 'अभ्युपयन्ति' इत्यनेनान्वयः । अयम् अभोक्तृत्वस्येत्याशङ्काग्रन्थोपदर्शितोऽपि । उभयोः वेदान्त-साङ्खयदर्शनयोः । “शुद्धया(द्धि)विशेषाय" इत्यस्य स्थाने "शुद्धयशुद्धिविशेषाय " इति पाठो भवितुमर्हति ॥ ११ ॥
शुद्धद्रव्यार्थिकप्रकृतिकत्वाच्छुद्धत्वं वेदान्तदर्शने, अशुद्धद्रव्यार्थिकप्रकृतिकत्वादशुद्धत्वं सायदर्शने इति यद् भवतोऽनुमतं तन्न समीचीनं यत आरमनि प्रातिभासिक कर्तृत्वं न तु व्यावहारिकमित्यभ्युपगम्सालयदर्शनस्यैव शुद्धत्वम्, व्यावहारिकं कर्तृत्वमात्मन इत्यभ्युपगन्तृवेदान्तदर्शनस्यैवाशुद्धत्वमित्यावेदकं त्रयोदशोत्तरशततमपद्यं विवृणोति- प्रत्युतेतीति । प्रत्युतशब्दोऽत्र वैपरीत्ये वर्तत इत्याह- प्रत्युतेति । वैपरीत्योपदर्शकमात्मनीत्यादिकं विमोति- साहयानामिति । मते इति पूरणम् । मूलस्थं कर्तृत्वं भोत्तृत्वादिकमुपलक्षयतीत्याह - उपलक्षणाद् भोक्तृत्वादि चेति । प्रातिभासिकमित्यस्य विवरणम् - अन्यस्थमेवान्यत्रारोपितमिति - प्रकृते अन्यत्र बुद्धौ स्थितं कर्तृत्वभोक्तृत्वादिकमन्यत्रात्मन्यारोपितमिति प्रातिभासिकं तदित्ययः। मूले "वेदान्तिनां च निर्वाच्यं मतं तद व्यवहारिकम्" इत्यस्य स्थाने " वेदान्तिनां त्वनिर्वाच्य मतं तद् व्यावहारिकम् " इति पाठः सम्यग् । तद्विवरणं-- वेदान्तिनां स्विति । मते इति पूरितम् । " कर्तव्यम्, तञ्च" इत्यस्य स्थाने " आत्मन्यारोपः, किन्त्वनिर्वाच्यमात्मनि कर्तृत्वादिकम् , तच्च" इति पाठः सम्यक्, तच्च अनिर्वाच्यं कर्तृत्वादिकं च। "अविद्ययाऽपि " इत्यस्य स्थाने " अविद्यापि " इति पाठः सम्यग्, अस्य अस्पर्शयन्तीत्यनेन कुण्ठयतीत्यनेन उत्तेजयतीत्यनेन चान्वयः, " अन्यधर्ममात्मन्यस्पर्श(यदु)पचारेण" इति स्थाने “अन्यधर्ममात्मन्यस्पर्शयन्ती, उपचारेण" इति पाठः सम्यक् , अन्यधर्म बुद्धिधर्म कर्तृत्वादिकम् , आत्मन्यस्पर्शयन्ती आत्मनि सम्बद्धमकुर्वती सती, "कण्ठमतिनिश्चय" इत्यस्य स्थाने "कुण्ठ. यति निश्चय" इति पाठः सम्यक् , आत्मनि कर्तृत्वादिकमौपचारिकमेवेति कृत्वोपचारत एवात्मनि कर्तृत्वादिव्यवहार इति व्यवहारबलं कुण्ठयति- वस्तुसाधनासमर्थ करोति, यो यन्त्र कर्मण्यसमर्थः स तत्र कुण्ठ इत्युच्यते, निश्चयतश्च नात्मनि कर्तृत्वादिकमिति निश्चयबलमुत्तेजयति-- पुष्णाति । इति एतस्मात् कारणाद् व्यवहारानुरोधिवेदान्तदर्शनतो निश्चयानुरोधिनि साख्यदर्शन एवोपचारानाश्रयणाच्छुद्धत्वं स्यादित्युक्तपद्यभावार्थ इत्यर्थः ॥ ११३ ॥
चतुर्दशोत्तरशततमपद्यमवतारयति-किञ्चेति- साङ्ख्यस्य सत्कार्यवादित्वं च-" असदकरणादुपादानग्रहणात् सर्व. सम्भवात् । शकस्य शक्यकरणात् कारणाभावाच सत् कार्यम् ॥" [ साङ्ख्यकारिका ] इतीश्वरकृष्णकारिकया व्यवस्था. पितम्। साख्यस्य सत्कार्यवादित्वेऽपि कथं न व्यवहानुरोधित्वमित्यपेक्षायामाह-व्यवहारनय इति-अस्य पश्यन्नित्यनेन आश्रयते इत्यनेन चान्वयः । ननु व्यवहारोऽपि क्षणिकासत्कार्यवादमृजुसूत्रनयाभिप्रेतं नाभ्युपगच्छति साङ्ख्योऽपि च तं नाभ्युपैतीत्येतावता साङ्ख्यस्य व्यवहारानुरोधित्वमित्याशङ्कय प्रतिक्षिपति-न चेति । अस्य साख्यस्य । निषेधहेतुमुपदर्शयति-तदनभ्युपगमेति- साङ्ख्यस्य क्षणिकासत्कार्यानभ्युपगमेऽपीत्यर्थः । उत्पत्त्यनभ्युपगमेन स्वाधिकरण

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274