Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकूतो नयोपदेशः ।
३६७
भादेरपि तथाज्ञानात्, रासभादेर्व्यभिचारज्ञानान्न तह इति चेत् ? न- वह्नयादेरपि व्यभिचारशङ्कासाम्राज्यादिति, धूमार्थिनो वह्नयादी. प्रवृत्तिश्च सम्भावनथैवोपपद्यत इति परमतमिति चेत् ? नसामान्यव्यभिचाराऽनुगतागुरुविशेषान्तरानुपस्थितिदशायां यत्किञ्चिद्धमवयोस्तगृहसामग्र्या एव वह्नि धूममाने तबाहकत्वात् , सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात् , रासभादौ तु व्यभि. चारनिर्णय एव, असति तन्निर्णये तत्र धूमहेतुत्वग्रहेऽपि भ्रमत्वमेव ग्राह्याभावात् , अन्यथासिद्धनियत पूर्ववर्तित्वं हि हेतुत्वम्, तथा च वयादेरवधिभूतस्य धूमादिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवारम्। यागा-ऽदृष्टादौ स्वर्गादिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेदकविनिर्मोकेण शब्दानुमाना. विनैव, तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात् । तृणा-ऽरणि-मण्यादीनां वसिकारणताग्रहेऽपीयमेव रीतिः,
भादेरिति । न तहहःन धूम-रासभयोः कार्यकारणभावग्रहः । देशान्तरे कालान्तरे वा वहिं विनाऽपि धूमो भविष्यतीति व्यतिरेकव्यभिचारशङ्कया वह्नि धूभयोरपि कार्यकारणभावग्रहो न स्यादिति समाधत्ते- न-वह्नयादरपीति । ननु धूमबन्योने यदि कार्यकारणभावस्तदा धूमरूपेष्टसाधनत्वस्य वह्नौ ज्ञानाभावाद् धूमार्थिनो वयानयनादी प्रवृत्तिर्न स्याद्, एवं भोजनादेरपि तुझ्यादिकं प्रति कारणत्वाभावेन तृप्याद्यर्थिनो भोजनादपीष्टसाधनत्वज्ञानाभावात् प्रवृत्तिने भवेदित्यत आहधमाद्यर्थिन इति । सम्भावनयैव प्रायो वयादे मादिर्भवतीति सम्भावनयैव इष्टसाधनत्वसंशयादपि कृषीवलादेः कृष्यादिकरणे प्रवृत्तिदर्शनेनेटसाधनत्वप्रमितिस्वेनेष्टसाधनतानिश्चयत्वेन वेष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वभावादित्याशयः । इति परमतम एवंस्वरूपं कार्यकारणभावापलापिमतम् ! समाधत्ते-नेति । सामान्येति-घूमं प्रति वहेद्रव्यत्वेन तेजस्त्वादिना वा कारणत्वे व्यभिचारः सकलवह्नयनुगतवह्नित्वापेक्षयाऽगुरोर्विशेषान्तरस्यावान्तरसामान्यस्यानुपस्थितिश्चेति तदशायां यत्किञ्चिद्धमवयोः कार्यकारणभावग्रहस्य या यत्किञ्चिद्भूमवढ्यन्वयव्यतिरेकग्रहसहकृतवह्निधूमादिप्रत्यक्षलक्षणा सामग्री तस्या एव वह्निधूममात्रे वह्विसामान्य धूमसामान्ययोः, तद्राहकत्वात् कार्यकारणभावग्राहकत्वात् , वहयाद्यन्यतमत्वापेक्षया वहित्वं लधिति लाघवज्ञाने सति धूमं प्रति वह्निसामान्यस्य वहिरवेन कारणत्वग्रहे क्वचिद् वहिं विनाऽपि धूमो भविष्यतीति व्यभिचारशङ्कायाः अप्रतिबन्धकत्वादित्यर्थः। ननु रासमत्वादिकमपि रासभादावनुगत सामान्यरूपत्वाचातद्वधावृत्त्याद्यपेक्षया लचिति तेनाविरूपेण 'रासभादेवू में प्रति कारणत्वग्रहः किं न स्यादित्यत आहे- रासभादौ स्विति । व्यभिचारनिर्णय एव रासभाद्यभावेऽपि वहन्यादिघटितसामथ्या धूमोत्पत्तेदनाद् व्यभिचारनिर्णय एव, स च कारणत्वग्रहं प्रति प्रतिबन्धक इति न धूम प्रति रासभादेः कारणत्वग्रह इत्यर्थः । यदा च निरुक्तव्यभिचारग्रहो नास्ति तदा निरुक्तसामग्या रासभादेरपि धूमं प्रति कारणत्वग्रहो भवत्येव, किन्तु रासभादौ धूमकारणत्वाभावेऽपि धूमकारण प्रहो भवन भ्रम एच, सच न वस्तुसाधक इति न ततो धूमं प्रति रासभादेः कारणत्वं सिद्धयतीत्याह- असतीति । तन्निर्णये व्यभिचारनिर्णये । तत्र रासभादौ । ग्राह्याभावात् ग्राह्यस्य धूमं प्रति रासभादेः कारणत्वस्याभावात् । कारणत्वं निरुच्य तस्य धूमं प्रति वहयादौ सद्भावमावेदयति- अन्यथेति- अन्यथासिद्धिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वं कारणत्वमित्यर्थः । तथा च कारणत्वस्य निरुक्तस्वरूपत्वे च । तत् कारणत्वम् । ननु स्वर्गवादेर्दुःखासम्भिनसुखविशेषादिरूपस्यादर्शनात् कथं यागत्वेन स्वर्गत्वेन कार्यकारणभावग्रहः, धर्माधर्मगतमदृष्टत्वं त्वतीन्द्रियत्वादेव न प्रत्यक्षमिति कथं स्वर्गत्वेनादृष्टत्वन कार्यकारणभावोऽप्यन्वयव्यतिरेकग्रहसहकृतप्रत्यक्षप्रमाणप्राय इत्यत आह-यागादादाविति । ननु कार्यकारणभावापलापिना चार्वाकण प्रत्यक्षस्यैव प्रामाण्यं स्वीक्रियते. न शब्दानुमानादेरिति कथं ततो यागा-ऽदृष्टादौ स्वर्गादिजनकत्वग्रह इत्यत आह- तत्प्रामाण्यस्यापीति- शब्दा-ऽनुमानादिप्रामाण्यस्यापीत्यर्थः । तत्र उदयनाचार्यादिप्रणीतकुसुमाञ्जल्यादौ, तत्रानुमान प्रामाण्यव्यवस्थापको ग्रन्थश्चायम् -
" शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम्। व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ १॥" इति. कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कत, तदाकलनं च नानुमानमवीर्य कस्यचित् , मुहूर्तयामा-होरात्र-पक्ष-मास-वयन-संवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशकुनीयत्वात् ,

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274