Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 245
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । ३९५ - स्यापि सद्भावशोधितस्य स्वकीयत्वेन, स्वकीयस्यापि चासग्रहादिना परकीयत्वेन विश्रामात् , अत एवाकरणनियमादिवचनानां परसमयस्थाना( म )नादरे तन्मूलदृष्टिवादस्याशातना दुष्करकारिणाम् , अपि च गुरुकुलवासत्यागिनां तपोव्रतादिगुणानुमोदने दीर्घसंसारिणा( ता) तत्र तत्र प्रतिपादिता, इत्यधिक धर्मपरीक्षायां ॥ १२८ ॥ क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तच्च, भूयस्यो युक्तयो द्वयोः ॥ १२९ ॥ क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्षभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १३० ॥ ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात् । क्रियामात्रं स्वभव्यानामपि नो दुर्लभं भवेत् ॥ १३१ ॥ तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र !, पुरुषस्य तथा मलः ॥ १३२ ॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः । मद्यपा स्त्री सती चेति, राजन्!न श्रद्दधाम्यहम् ॥ १३३ ॥ ज्ञानवान् शीलहीनश्च, त्यागवान् धनसङ्ग्रही । गुणवान् भाग्यहीनश्च, राजन्! न श्रद्दधाम्यहम् ॥ १३४ ॥ इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः, क्रियायुग्ज्ञानमिष्टकृत् ॥ १३५ ॥ ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ १३६ ॥ Varmammrammarurwwwmicrormer कार्येत्यन्वयः। अक्षग्राहिकादिनेति- शृङ्गं हस्तेन गृहीत्वेयं गौममेत्येवं यत् परं प्रति विशिष्योपदर्शनं तत्र शृङ्खप्राहिकान्यायः प्रवर्तते । स्वपरेति- " नापेक्षयैव" इत्यस्य स्थाने " चापेक्षयैव " इति पाठो युक्तः । स्वकीयंत्वने. त्यस्य विश्रामादित्यनेनान्वयः । अत एव अपेक्षाश्रयणस्यावश्यकत्वादेव । अनादरे अनाश्रयणे । तन्मूलेति- परसमयस्थाकरण नियमादिवचनमूलेत्यर्थः । दुष्करकारिणां तन्मूलदृष्टिवादस्याशातना तत्र तत्र प्रतिपादितत्यन्वयः । “दीर्घसंसारिणा" इत्यस्य स्थाने " दीर्घसंसारिता" इति पाठो युक्तः । तत्र तत्रेत्यानेडनेन बहुषु प्रन्थेषु तथा प्रतिपादनं नोपेक्षणीयमिति व्यजितम् । अत्र विशेषावगमेच्छुभिरस्मत्कृतधर्मपरीक्षाऽवलोकनीयेत्युपदेशाभिप्रायेणाह-- इत्यधिकं धर्मपरीक्षायामिति ॥ १२८ ॥

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274