________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः ।
३९५
-
स्यापि सद्भावशोधितस्य स्वकीयत्वेन, स्वकीयस्यापि चासग्रहादिना परकीयत्वेन विश्रामात् , अत एवाकरणनियमादिवचनानां परसमयस्थाना( म )नादरे तन्मूलदृष्टिवादस्याशातना दुष्करकारिणाम् , अपि च गुरुकुलवासत्यागिनां तपोव्रतादिगुणानुमोदने दीर्घसंसारिणा( ता) तत्र तत्र प्रतिपादिता, इत्यधिक धर्मपरीक्षायां ॥ १२८ ॥
क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तच्च, भूयस्यो युक्तयो द्वयोः ॥ १२९ ॥ क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्षभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १३० ॥ ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात् । क्रियामात्रं स्वभव्यानामपि नो दुर्लभं भवेत् ॥ १३१ ॥ तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र !, पुरुषस्य तथा मलः ॥ १३२ ॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः । मद्यपा स्त्री सती चेति, राजन्!न श्रद्दधाम्यहम् ॥ १३३ ॥ ज्ञानवान् शीलहीनश्च, त्यागवान् धनसङ्ग्रही । गुणवान् भाग्यहीनश्च, राजन्! न श्रद्दधाम्यहम् ॥ १३४ ॥ इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः, क्रियायुग्ज्ञानमिष्टकृत् ॥ १३५ ॥ ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ १३६ ॥
Varmammrammarurwwwmicrormer
कार्येत्यन्वयः। अक्षग्राहिकादिनेति- शृङ्गं हस्तेन गृहीत्वेयं गौममेत्येवं यत् परं प्रति विशिष्योपदर्शनं तत्र शृङ्खप्राहिकान्यायः प्रवर्तते । स्वपरेति- " नापेक्षयैव" इत्यस्य स्थाने " चापेक्षयैव " इति पाठो युक्तः । स्वकीयंत्वने. त्यस्य विश्रामादित्यनेनान्वयः । अत एव अपेक्षाश्रयणस्यावश्यकत्वादेव । अनादरे अनाश्रयणे । तन्मूलेति- परसमयस्थाकरण नियमादिवचनमूलेत्यर्थः । दुष्करकारिणां तन्मूलदृष्टिवादस्याशातना तत्र तत्र प्रतिपादितत्यन्वयः । “दीर्घसंसारिणा" इत्यस्य स्थाने " दीर्घसंसारिता" इति पाठो युक्तः । तत्र तत्रेत्यानेडनेन बहुषु प्रन्थेषु तथा प्रतिपादनं नोपेक्षणीयमिति व्यजितम् । अत्र विशेषावगमेच्छुभिरस्मत्कृतधर्मपरीक्षाऽवलोकनीयेत्युपदेशाभिप्रायेणाह-- इत्यधिकं धर्मपरीक्षायामिति ॥ १२८ ॥