________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो भयोपदेश । नामपि प्राञ्जलबुद्धिनामेकान्ततः षट्कायादिश्रद्धानवताम् , तान् प्रति वृद्धस्तमेव सत्यमित्यादिरीत्येव सूत्रतात्पर्यविशदीकरणात् , यद्वा सूत्र परम्परोभयप्रामाण्यानुपजीव्यकान्तश्रद्धानमेव मिथ्यात्वम् , तह न तेषाम् , सम्यक्त्वं चानभिगृहीतकुदृष्टित्वरूपसलेपकविलक्षणमेव, तच्चानेकान्तव्यापकत्वव्युत्पत्तिजनित. श्रद्धानरूपविस्ताररुचिस्वरूपसम्यक्त्वापेक्षयाऽप्राधान्येन द्रव्यतया व्यपदिश्यते, तेन द्रव्य-भावाभ्यां सम्यक्त्व मिथ्यात्वयोर्द्वयोरपि तुल्यव्यापारे न तज्जन्यक्रियाद्वययोगपद्यापत्तिरिति, युक्तं चैतत् , इत्यमेव तेषां मार्गानुसारितुणप्रसंशया परपाखण्डप्रशंसारूपसम्यक्त्वातिचारानापत्तेः, तत्र हि पर. पाखण्डानां सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामिति व्याख्यातमाचार्यैः, तथा च परपाखण्डतावच्छेदकधर्मप्रकारेणैव प्रशंसाया अतिचारस्वमित्यागतम् , स च धर्मस्तत्तद्व्यक्तित्वम् , अनाचारलिङ्गवेषादिकमेरकाचारादिमत्त्वेऽप्यभिनिविष्टत्वादिकं वा यथास्थानं ग्राह्यम् , अत एवैतेषां प्रशंसा न कार्यों पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणेति शृङ्गग्राहिकादिनोदाहृतम् । स्व-परविभागोऽपि नापेक्षयैव, परकीयन चेति। ईदृशं निरुक्तशासनबाखैकान्त श्रद्धानलक्षणम् । अनेकान्तव्यापकत्वव्युत्पत्तिरहितानामपि अनेकान्तं वस्तुमात्रवृत्तीत्येवस्वरूपा व्युत्पत्तिमतिरनेकान्तब्यापकव्युत्पत्तिः, तद्रहितानामपि- तद्विकलानामपि । प्राञ्जलबुद्धीनां सरलबुद्धीनाम् । एकान्ततः नियमेन । षदकायादिश्रद्धानवता कायाः षटू जीवाः षडित्यादिश्रद्धावताम् , ईदृशं मिथ्यात्वं नैवेत्यर्थः । ननु वृद्धपरम्पराप्राप्तसूत्रतात्पर्य 'स्यात् षटकायाः, स्यात् षट् जीवाः' इत्याधनेकान्ते एव, न तु 'नियमेन षटकायाः' इत्येकान्ते इति निरुक्ततात्पर्याविषयत्वात् प्रकृतकान्तस्यापि शासनबाह्यत्वमेवेति तद्विषयश्रद्धानं कथं न मिथ्यात्वमित्यत आह-तान् प्रतीति-निरुक्तप्राञ्जलान् प्रतीत्यर्थः । “तमेव" इत्यस्य स्थाने “तदेव" इति पाठो युक्तः, यदा "सत्यम" इत्यस्य स्थाने "सचं " इति पाठः, “तमेव सचं निस्संकजं जिणेहिं पन्नतं"
] इत्यादिरीत्येत्यर्थः। प्रकारान्तरेण मिथ्यात्वं निरुच्य तदभावावेदकं कल्पान्तरमाह-यद्वति। सूत्रंतिसुत्रं च परम्परा च- वृद्धपरम्परा च सूत्रपरम्परे, तदुभयस्य- तदन्यतरस्य यत् प्रामाण्यं तदनुपजीवि- तदनपेक्षं यदेकान्तश्रद्धानं तदेव मिथ्यात्वमित्यर्थः, अत्रोभयपदस्यान्यतरार्थकत्वकथनेन प्रकृतश्रद्धानसूत्रप्रामाण्यानुपजीवित्वेऽपि न क्षत्तिः। तच्च निरुक्तमिथ्यात्वं च । न तेषां नकान्तषदकायादिश्रद्धावताम् । ननु तेषां मिथ्यात्वाभावे सम्यक्त्वं प्राप्त तच्च कथं द्रव्यतो न भावत इत्यपेक्षायामाह- सम्यक्त्वं चेति । तच्च निरुक्तसम्यक्त्वं च। अनेकान्तेति- अनेकान्तं वस्तुमात्रगतमिति बुद्धिलक्षणा याऽने कान्तव्यापकव्युत्पत्तिस्तन्जनितं यत् सर्ववस्तुव्यापकानेकान्तस्वविषयकं श्रद्धानं तद्रूपातदामिका या विस्ताररुचिस्तत्स्वरूपं यत् सम्यक्त्वं तदपेक्षयाऽप्राधान्येन द्रव्यतया निरुक्तसम्यक्त्वं व्यपदिश्यत इत्यर्थः । तेन निरुक्तविवेकेन, अस्य न तजन्येत्यादिना सम्बन्धः, यत्र द्रव्यतः सम्यक्त्वं तत्र भावतो मिथ्यात्वं यत्र भावतः सम्यक्त्वं तत्र द्रव्यतो मिथ्यात्वमिति कृत्वा द्वयोस्तुल्यव्यापारी बोध्यः, तजन्येति- सम्यक्त्व-मिथ्यात्वव्यापारद्वयजन्येत्यर्थः । अस्य विवेकस्य युक्तत्वमावेदयति- युक्तं चैतदिति । इत्थमेव निरुक्तविवेचन प्रकारेणैव । तेषां षट्कायादिश्रद्धावताम् । मार्गानुसारिणो यो गुणः न्यायसम्पन्न विभवः” इत्यादिरूपस्तत्प्रशंसया प्रशंसाकर्तुः परपाखण्डप्रशंसारूपो यः सम्यक्त्वातिचारस्तस्यानापत्तेरित्यर्थः। तत्र परपाखण्डप्रशंसारूपसम्यक्त्वातिचारे । हि यतः। परपाखण्डानो प्रशंसा परपाखण्डप्रशंसेति समासविग्रहे स्थितं परपाखण्डानामिति वाक्यं सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामित्येवं व्याख्यातमाचार्यरित्यर्थः । तथा च निरुक्तव्याख्याने च । परेति- यद्रूपेण परपाखण्डत्वं स धर्मः परपाखण्डतावच्छेदकस्तत्प्रकारेणैव परपाखण्डप्रशंसाया अतिचारवं- सम्यक्त्वातिचारत्वमागत- प्राप्तमित्यर्थः। स च धर्मः परपाखण्डतावच्छेदकधर्मश्च । तत्तद्वयक्तित्वम् यद्यव्यक्तौ पाखण्डत्वमभिमतं तत्तद्व्यक्तिनिष्ठतत्तस्यक्तित्वम्, अस्य यथास्थानं ग्राह्यमित्यनेन सम्बन्धः । अनाचारेति- परपाखण्डतावच्छेदकधर्मोऽनाचारलिङ्गवेषादिकं यथास्थानं ग्राह्यमित्यन्वयः। अत एव उक्तरूपपरपाखण्डत्वाश्रयणादेव, अस्योदाहृतमित्यनेनान्वयः। पतेषां पुण्यभाज एते सुलब्धर्मभिर्जन्मेत्यादिलक्षणा प्रशंसा, न