________________
नयारततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपरे ।
अस्या अर्थ:-नियमेन-अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् , जीवपुद्गलानामपि परस्पर. विनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् , हन्दीत्युपदर्शने, एवम् अपर्यायेष्वविवक्षितभेदपर्यायेषु, अविभक्तश्रद्धा एकरूपश्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चान षट्वा-षट्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः- एकान्तश्रद्धानमात्रं न मिथ्यात्वलक्षणम्, अनेकान्तानेकान्त श्रद्धाने अतिव्याप्तेः, किन्तु शासनबाबैकान्तश्रद्धानम् , तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा( तात्पर्यताविषयत्वम् , तेनाभिनिवेशा-ऽभिग्रहयोयोरपि सङ्ग्रहः, न चेदृशं मिथ्यात्वभनेकान्तव्यापकत्वव्युत्पत्तिरहितानैकान्तेन षट्वमेकत्वस्यापि भावादित्याह- कायानामगीति । न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलल्वेनैकत्वमित्येव किन्तु जीव-पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह- जीव-पुद्गलानामपीति । " परस्पर" इत्यस्य स्थाने " परस्परम्' इति पाठः समुचितः । हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते, तयेत्युपदर्शनम् । अपर्यायबित्यस्य विवरणम्- अविवक्षितभेदपर्यायेष्विति- अपर्यायश्वित्यस्य यथाश्रुतं पर्यायरहितवित्यर्थों म सम्भवति पर्यायरहितस्य द्रव्यस्यामावादत इत्थं व्याख्यानमिति बोध्यम् । अविभक्तश्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभक्तश्रद्धेत्यादिना । अस्यास्तात्पर्यार्थमाह- तथा चेति- अवधारणेन श्रद्धाया भावतोऽ. श्रद्धात्वव्यवस्थितौ चेत्यर्थः । अत्र षटकायाभ्युपगमे । षट्रवाषट्वादिना सप्तमङ्गीपथेन स्यात् षद् जीवाः, स्यादषद जीवाः, स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः, स्यात् षट् स्यादवक्तव्याश्र जीवाः, स्यादषट् स्यादवक्तव्याश्च जीवाः, स्यात् षद स्यादषट् स्यादवतव्याश्च जीवा इत्येवं सप्तमगीमाण । “ भावत इत्युतिः माया" इत्यस्य स्थाने "मावत इत्युक्तिभाचा" इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योकि:-कथन तद्भङ्गया- तदुक्तिशैल्या, अस्य न विहन्यते' इत्यनेनान्वयः । षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरंण । एवमुक्त षद् जीवनिकाया इत्येवमुक्के- कथितम् । इति इत्याकारिका या जिनवचने रुचिः- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्वाद् द्रव्यसम्यग्दृष्टिभवत्येव, न तु स वव्यतो मिथ्याष्टिः । इति एवमुक्तगाथाव्याख्यानम् । टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति । तेषां सम्मतिटीका. काराणाम् । अयम एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्रकटीक्रियमाणः। आशयोऽभिप्रायः। अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम् , यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम्, इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एवं स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोड़नेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्तानकान्त श्रद्धाने। अतिव्याप्तः अनेकान्तानेकान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छ्रद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्त. श्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः । तर्हि किं मिथ्यात्वलक्षणमिति पृच्छति-किन्विति। उत्तरयति-शासनबाबैकान्तश्रद्धानमिति-- मिथ्यात्वलक्षणमित्यनुकर्षण सम्बध्येत, शासनबाह्यस्य- जनसद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः । तत्त्वं च सिद्धान्तबाह्यत्वम् । वृद्धति - ' सूत्रा( तात्पर्यता" इत्यस्य स्थाने " सूत्रतात्पर्या" इति पाठो युक्तः । वृद्धश्चात्र ज्ञानवृद्धो ग्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्यजैनागमलक्षणसूत्रस्य तात्पर्य तदविषयत्वं शासनबाह्यत्वमित्यर्थः । तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य 'सङ्कहः' इत्यननान्वयः। तथा च षडेव जीवकाया इत्यस्यकान्तस्य निरुक्तशासनबाह्यत्वाभावातू तच्छद्धानं न मिथ्यात्वमित्याह